________________ पटले, 20-21 श्लो. ] वज्राचार्यादिसर्वकर्मप्रसरसाधनालक्षणमहोद्देशः 19 लाक्षासर्जरसकुन्दुरुश्रीवासागुडेन मोदित उग्रधूप इति / एवं मोहने स्तम्भने च कषायधूपः। हरीतकीचूर्णं गुडसहितं कषायधूपः / इति धूपनियमः।। __एवं नैवेद्यं शान्तौ दुग्धभक्तम्, पुष्टौ दधिभक्तम्, मारणे कालजम्, उच्चाटने मांसम्, वश्ये घृतभक्तम्, आकृष्टौ तिलतैलभक्तम्, मोहने 'व्यामिश्रमुद्गौदनम् / स्तम्भने चणकं च मत्स्योदनमिति / एवं शान्तिपृष्टयोश्चन्दनं विलेपनम, मारणोच्चाटने रक्ताङ्गारेण च, वश्याकृष्टौ कुङ्कमगोरोचनेन, रक्तचन्दनेन वा / मोहने स्तम्भने हरिद्राहरितालेनेति गन्धनियमः। तथा प्रदीपः। शान्तिपुष्ट्योतेन प्रदीपः, मारणोच्चाटनयोर्नरवसया, वश्याकृष्टौ तिलतैलेन, मोहने स्तम्भने ज्यो[171a]तिष्मतीतैलेन भल्लातकतैलेनेत्यादिनेति दीपनियमः। __10 तथा शान्तौ पुष्टौ अक्षतं शालितण्डुलाः, मारणोच्चाटने राजिकाः', वश्याकृष्टौ सर्षपाः, स्तम्भने मोहने मसूरिकाः, अपरव्रीहिर्वा इति / तथा वस्त्रादीनि शान्तिपुष्ट्योः सर्वाणि पूजाद्रव्याणि श्वेतानि, मारणोच्चाटनयोः कृष्णानि, वश्याकृष्टौ रक्तानि, स्तम्भनमोहनयोः पीतानि, सर्वकर्मणि "सर्वाणि हरितानीति पूजाविधिनियमः // 20 // इदानीं शान्त्यादिकर्मणि वक्ष्यमाणयन्त्रस्य लिखनविधिरुच्यतेयन्त्रं न्यग्रोधपत्रे चितिमृतकपटै हुपत्रेऽर्कपत्रे श्रीखण्डैः शालिपिष्टैश्चितिभुवनगताङ्गाररक्तविषेण / काश्मीरैः शीतपुष्पैस्त्रिफलरसकुशातालकैर्लेखनं स्याद् दूर्वाशीतास्थिपिष्टैः कनकखदिरजा लेखनी विल्वजार्का // 21 // ___इह वक्ष्यमाणयन्त्रं शान्तौ पुष्टौ न्यग्रोधपत्रे 'शाद्वले लेखनीयम्, 'शालिपिष्टो- दकेन दूर्वाङ्करेण शीतलेखन्या पुष्टौ। तथा मारणोच्चाटने च श्मशानकर्पटे विषकषिराङ्गारेण नरास्थिलेखन्या, काकपिच्छलेखन्योच्चाटने, वश्याकृष्टौ भूर्जपत्रे कुङ्कमगोरोचनेन सुवर्णलेखन्या, खदिरलेखन्याकृष्टौ रक्तचन्दनेन पिष्टेनेति, स्तम्भने मोहने अर्कपत्रे परिपक्वे पीतवर्णे त्रिफलारससहितेन तालकेन हरिद्रया च विल्वलेखन्या मोहने चेति नियमः। 20 25 . 1. भो. Sran Chun Mudag Dan bSras Pa (मसूरिकामुद्गमिश्र)। 2. ख. ग. भल्लाटक / 3. ग. अक्षत / 4. ग. राजिः / 5. भो. 'सर्वाणि' नास्ति / 6. च. 'इह' नास्ति / 7. च. सार्ने / 8. भो. Sri Khanda Dan Salu (श्रीखण्डं शालिश्च ) / 9. ग. च. रेणाङ्गारेण / 10. ग. नेन च /