________________ 10 224 विमलप्रमायां [ साधनाफलदो द्वादशवर्षावधेः षोडशवर्षावधेः, तथा देवी देवता उपायो वा योगिना भावितेति नियमः। अतो द्वादशवर्षेर्देवी वरदा भवति भाविता, देवश्च षोडषवर्षेर्वरदो भवति / ततः सर्वकर्माणि सर्वसिद्धयः सर्वसौख्यानि योगिनः सिद्धयन्ति / अन्यथा क्लेशः केवल एवेति सर्वतन्त्रान्तरे कालनियमो वीर्यवतामहनिशि भावितात्मनाम्, नान्येषां व[295b]र्षशतावधेरिति सिद्धिनियमः // 141-142 // इदानीं चिह्नोत्पादाय ज्ञानबीजान्युच्यन्तेजः हूँव होः क्रमेणाङ्कुश इति कुलिशं वज्रपाशश्च घण्टा ॐ आः हूँ होस्तथोक्तं शशिरविकुलिशं चाक्षरं तद्वदेव। . ई ऋ ऊ लु तथैव प्रकटयरवला वायुवयम्बुपृथ्व्यो हः हुं हं में तथोक्तं रविरपि कुलिशं चन्द्रमा कतिका च // 143 / / 'ज इत्यादि / इह जः हूँ व होः क्रमेणेति जःकारेण वज्राधेशो भवति, तेन परिणतेन वजाङ्कशहस्ता देवी वा देवो वा भवति / एवं हूँकारेण वज्रम्, तेन वजहस्ता भवति / वकारेण पाशहस्तेन पाशहस्ता भवति / होःकारेण घण्टा, तया घण्टाहस्ता भवति। ॐ आःहूँ होः तथोक्तमिति। तथेति क्रमेण पूर्ववत् / ॐकारेण चन्द्रमण्डलं शशीति। आःकारेण सूर्यमण्डलं रवीति / हूंकारेण राहुमण्डलं कुलिशमिति / होःकारेण कालाग्निमण्डलमक्षरं तद्वदेवेति / ई ऋऊल तथैवेति / यथाक्रमेण ईकारपरिणतः खड्गः, तेन परिनिष्पन्ना देवता खगहस्ता देवी वा / एवं ऋकारेण मणिर्बाणो वा, तेन तेजोदेवता मणिहस्ता बाणहस्ता वा देवी। ऊकारेण पद्मम्, तेन तोयदेवता पद्महस्ता उत्पलहस्ता वा देवी / लकारेण चक्रम् / चक्रेण पृथिवोदेवता चक्रहस्ता "देवी वा / एवं यरवला अपि यथाक्रमेण वाय्वग्नितोयपृथिवीदेवता इति / तथा हः इति रविमण्डलम् / हुँ इति रविमूनि वचं नायकस्य / हमिति चन्द्रमण्डलम् / ] इति चन्द्रमण्डलोपरि कतिका / नायिकाचिह्ननियमः। 'तथोक्तमिति // 143 // ___ इदानीं देवतायां साधितायां सत्यां शान्त्यादिकर्मकरणाय देवतासमाधिरुच्यते ध्यात्वा चन्द्रार्कमध्ये त्वलिकलिसहिते तोयबीजात्मकाब्जं तेनोत्पन्नेकवक्त्रां यमकरकमलां देवती चन्द्रवर्णाम् / आरूढां श्वेतनागं सितजलजकरां चाभयां श्वेतवस्त्रां श्वेतालङ्कारयुक्तां प्रहसितवदनां प्रेषयेत् साध्यवेश्म // 144 // [296a] 20 १.ख. 'ज इत्यादि' नास्ति / 2. ग. इतः परं पत्र 124 ‘एवं हूँकारेण""च रक्तम्' नास्ति / 3. च. भो. 'देवी' नास्ति / 4. 5. भो. 'देवी' नास्ति / 6. च. 'तथोक्तमिति' मास्ति। 7. छ. 'साधितायां' नास्ति /