________________ पटले, 141-149 श्लो.] नानासाधनमहोद्देशः 225 ध्यात्वेत्यादि / इह पूर्वोक्तमातृगुह्यपद्मे चन्द्रार्कमध्ये आदिकादिसहिते तोयबीजात्मकाब्ज मिति वकारपरिणतं शुक्लं पद्मम, तेनोत्पन्नकवक्त्रा द्विभुजा देवता चन्द्रवर्णा / आरूढा श्वेतनागमिति ऐरावतमारूढा। सितजलजकरेति श्वेतपद्महस्ता देवता देवी श्वेतोत्पलहस्ता। अभया दक्षिणेऽभयहस्ता। श्वेतवस्त्रा श्वेतालङ्कारयुक्ता मुक्ताफलाभरणा प्रहसितवदना भाव्या / तां च प्रेषयेत् साध्य वेश्मनि // 144 // तस्मात् साध्यं गृहीत्वा पुनरपि च विभोर्मण्डले संप्रविष्टां भर्तुश्चाज्ञां प्रलब्ध्वा पुनरमृतघटेर्लोचनाद्याः प्रहृष्टाः / तं साध्यं स्नापयन्ति प्रवरदशविधाः शक्तयः पूजयन्ति रूपाद्याः पोषयन्ति प्रकटदशभिलास्यादयस्तोषयन्ति // 145 / / भूताख्याश्चाभयन्ते प्रवरदशविधाः क्रोधजाः पालयन्ति नागिन्यश्चुम्बयन्ति त्वमरयुवतयो द्वादशालिङ्गयन्ति / चण्डाः कुर्वन्ति रक्षां सकलभुवितले शान्तिपुष्टयर्थहेतोरेवं साध्यस्य सर्व परमसुखकरं योगिना भावनीयम् / / 146 // अपरवृत्तद्वयेनोक्तं सुबोधम् / तस्मादित्यादिना, एवं साध्यस्य सर्व परमसुखकरं योगिना भावनीयमिति पर्यन्तम् // 145-146 // ह्रीं चन्द्रादित्यगर्भे कुवलयकलिकाबाणमेवेक्षुचापं तेनोत्पन्नार्कभासोभयकरधनुषा पूरिताकर्णबाणा / प्रत्यालीढं च रूढा कमलशशधरा प्रेषयेत् साध्यवेश्म साध्यं हन्नाभिगुह्ये शिरसि घ वदने ताडयित्वा शरेण // 147 / / - [296b] कण्ठे पाशेन बद्ध्वा क्षुभितमपि तया मण्डले नीयमानं चण्डाभिर्वस्त्रहीनं कृतमपि नियतं वेष्टितं नागिनीभिः / देवीभिर्भय॑मानं सलगुडमुषलैस्ताडितं क्रोधजाभिभूताभिर्भीष्यमानं खरनखनिहितं चैव लास्यादिभिश्च // 148 // वज्राभिर्नष्टबुद्धि क्षितिजलहुतभुगुवातजाभिश्च बद्धं भर्तुः पादे विवस्त्रं सकलमदहतं पातितं शक्तिभिश्च / 15 20 25 1. क. ङ्गमिति / 2. भो. Lhamo ( देवती) / 3. छ. वेश्मेति /