________________ पटले, 139-142 श्लो.] नानासाधनमहोद्देशः 223 10 आदावित्यादि / इहादौ योगिना यत्नत इति गुरूपदेशतः साधनीयः श्रीकालचक्र इति प्राणवायुर्मध्यमायां प्रवेशितव्यः सदा। त्रिभुवनजननीति शून्यताबिम्बम् / तो द्वौ बिम्बप्राणौ यत्नतः साधनीयौ। पश्चादुक्तानि सर्वकर्माणि साध्यानि भवन्ति भुवितलनिलये शान्तिकादीनि यानि / अत्र दृष्टान्तः-मात्रा पित्रा विहीनो नहि भवति सुतः सर्वदा लोकसिद्धः / तस्माद् द्वौ साधनीयौ बिम्बप्राणौ समसुखफलदौ नान्यथा कर्मसिद्धिरस्ति, बिम्बेन प्राणेनासाधितेनेति नियमः // 140 // इदानीं शान्त्यादिसाधनाय आदिभावनोच्यतेभर्तुहृत्पद्ममध्ये शशिरविशिखिनि स्थापयेन्मूनि वज्रं हूँकारं ज्ञानजातं प्रलयघननिभं पञ्चशूकं सरश्मि / तन्मध्ये जोऽङ्कुशस्य त्रिभुवनसकलं रश्मिभिः पूरयित्वा आकृष्य ज्ञानचक्रं त्रिविधभवगतं वज्रमार्गे प्रवेश्य // 141 / / सर्व चन्द्रद्रवाभं स्वकुलिशवदनादुत्सृजेन्मातृपये तस्मिन् सूर्ये प्रविष्टं भवति समरसं चादिकादिप्रयुक्तम् / तन्मध्ये ज्ञानबीजं भवति कुलवशात् कर्मणः शान्तिकादेस्तेनोत्पन्ना च देवी भवति हि फलदा योगिनो देवता वा // 142 // भर्तरित्यादि। इह यदा योगी बिम्बं विस्पष्टमवधूत्यां प्राणगतं पश्यति, तदा तद्विम्बं यादृशं विकल्पयेत् तादृशं पश्यति, तद्विम्बं भर्तुरिति / कालचक्र पूर्वोक्तं निष्पाद्यं ततस्तस्य हृत्पद्ममध्ये कणिकायां शशिरविशिखिनीति चन्द्रसूर्यराहुयोगग्रहमण्डले श्यात्मके, अध्यात्मनि ललनारसनाऽवधूत्येकलोलीभूते हुत्कमले / तत्र स्थापयेद् मूर्धिन वज्रं हूँकारपरिणतं पञ्चशूकं प्रलयघननिभं कृष्णवर्णमि[295a]ति सरश्मि पश्वरश्मि स्फरदिति / तन्मध्य इति तस्य वज्रस्य मध्यवरटके जःकारपरिणतं वज्राकुशं भावयेत् / ततस्तस्याङ्कशस्य रश्मिभिर्वज्राङ्कशाकारैस्त्रिभुवनमिति त्रिधातुकं सकलं पूरयित्वा तैर्वजाङ्कशेस्त्रिभवाकारं स्वच्छं ज्ञानचक्रमाकृष्य त्रिविधभवगतं व्यापकत्वेन यत् तदवधूतीद्वारेणोष्णीषललाटकण्ठहृदयनाभिगुह्यमार्गे प्रवेश्य / सर्वमिति सर्वाकारं यत्तच्चन्द्रद्रवाभमिति बोधिचित्तलक्षणम्, स्वकुलिशवदनादुत्सृजेन्मातृपद्म इति स्ववज्र- मुखाद्यथा पुरुषः स्त्रीकमले बोधिचित्तमानन्दितं क्षिपेत्, तथा देवतायोगेन देव्याः पद्म उत्सृजेत् / मात्रिति वक्ष्यमाणानां जननी यथा गर्भजानां तथैव / तस्मिन् सूर्ये प्रविष्टमिति / इह यथा स्त्रीयोनौ रक्त प्रविष्टं बोधिचित्तं समरसं रक्तेन सह भवति, तथा सूर्यमध्ये प्रविष्टं चन्द्रं समरसं मातपद्मे भवति। आदियुक्तं चन्द्रद्रवं कादियुक्तं सूर्यरजः, प्राणापानयुक्तम्। तन्मध्ये प्राणापानमध्ये ज्ञानबोजमालयविज्ञानलक्षणं भवति / कुलवशादिति पञ्चस्कन्धवासनावशात् / सत्त्वानां विज्ञानं भवति / एवं कर्मणः शान्तिकावेर्ज्ञानबीजं भवति। तेन बोजेन उत्पन्ना यथा कुमारी वा कुमारो वा, भवति हि 15 20 25 T360 30 - - -