________________ 5 15 222 विमलप्रभायां [साधनावश्याचं भूतजाभिः प्रकटदनुकुले कीलनं चासुरीभिर्मातृभ्यां सर्वकर्माण्युभयपविकुले मारणं जीवनं च // 139 / / शान्तिरित्यादि / इह शान्तिः पुष्टिश्च ससुतजिनकुलैरिति / इह रूप-वेदनासंज्ञा-संस्कारा एतानि चत्वा[ 294 a ]रि जिनकुलानि ससुतानीति / विष्कम्भि-क्षितिगर्भ-लोकेश्वर-खगर्भ एतानि बोधिसत्त्वकुलानि / एवं लोचना-पाण्डरा-मामकी-तारा जिनकुलानि / गन्धवज्रा-रसवज्रा-रूपवज्रा-स्पर्शवज्रा बोधिसत्त्वकुलानि। एभिः कूलैः शक्लवर्णैर्भावितैः प्रत्येकैकैश्चन्द्रमण्डले ललाटे पद्मासने उपायैः सितपद्मवरदहस्तैः, प्रज्ञाभिः सितोत्पलाभयहस्ताभिः शान्तिः पुष्टिश्च सिद्धयते / राजन्नित्यामन्त्रणम् / चकारान्निविषत्वं ज्वरोपशमनं चेति / विद्वेषोच्चाटनं चकारान्मारणं विषसंक्रामणं च / प्रकृतिगुणवशादिति क्रोधप्रकृतिगुणवशात्, सिद्धयते क्रोषजाभिरिति / क्रोधजा हूँकारवज्रजा दश क्रोधाः, फ्रेंकारकर्तिजा दश क्रोधभार्याः, हृदये राहुमण्डले क्रोधैरालोंढपादैर्ववपाशहस्तैरिणं सिद्धयति / खड्गशृङ्खलाहस्तैः सतर्जन्यविद्वेषाद्यं' कृष्णवर्णैः करैरिति / देवीभिः कतिकपालहस्ताभिः प्रत्यालोढाभिः खड्गपाशहस्ताभिरिति सिद्धयति / वश्याचं भूतजाभिरिति / इह चचिकादिभिरष्टदेवोभिः सूर्यमण्डले कण्ठे विशाखपदाभी रक्तवर्णाभिर्धनुर्बाणहस्ताभिर्वश्यं सिद्धयति / आकृष्टाद्यं पाशाङ्कशहस्ताभिः सिद्धयतीति / प्रकटदनुकुले कोलनं चासुरीभिरिति / इह श्वानास्याद्यष्टदेवीभिः पीतवर्णाभिः, ' नाभौ कालाग्निमण्डले पीते मण्डलपदाभिश्चक्रपर्वतहस्ताभिः स्तम्भनं सिद्धयति / मुद्गरकीलकहस्ताभिः कीलनं सिद्धयति। त्रिशूलनागहस्ताभिः मोहनं सिद्धयतीति / मातृभ्यामिति वज्रधात्वीश्वर्या प्रज्ञापारमितया वा गुहकमले सर्वकर्माणि सिद्धयन्ति / उदकादिमण्डलभेदेन सितादिवर्णेन पूर्वोक्तेन प्रत्येकैकचिह्नन पदेन च मारणं जीवनं च सिद्धयति। वज्रासनेन बिन्दुमध्ये सानन्दा 'देवता जीवनं भवति, योगबलेन प्राणानाकृष्य च्युतेन बिन्दुना विरक्ता मारणं करोति, पुनः प्रत्युज्जीवनं नास्ति साध्यस्य / तेन तत्साधनं बौद्धयोगिना न कर्तव्यम्, यत्र साध्यस्य प्राणे आकृष्टे सति शुक्रनिर्गमो भवतीति नियमः सर्वकर्मसु [ 294b ] // 139 // इदानीं सर्वकर्मसाधनानामादिकारणमुच्यतेआदो श्रीकालचक्रस्त्रिभुवनजननी यत्नतः साधनीयौ पश्चात् कर्माणि साध्यानि च भुविनिलये शान्तिकादीनि यानि / मात्रा पित्रा विहीनो नहि भवति सुतः सर्वदा लोकसिद्धस्तस्माद् द्वौ साधनीयो समसुखफलदो नान्यथा कर्मसिद्धिः // 140 / / 20 1. ग. च. भो. 'सिद्धयति' इत्यधिकम् / 2. भो. 'सिद्धयति' नास्ति / 3. भो... 'पीतवर्णाभिः' नास्ति / 4. ग. च. प्रत्येक / 5. च. 'च' नास्ति / 6. भो. Lhamo ( देवती ) 7. ग. च. करोति /