________________ 5T359 पटले, 134-139 श्लो.] नानासाधनमहोद्देशः 221 पद्मपत्रे स्थितानां लाङ्कलाग्रं च सर्वमिति। एवमष्टौ नागराजाः पञ्च फणिनो घनकुलं मेघवृन्दमुदरान्मुञ्चतो वै समन्तात् / एवं क्रोधेन्द्रो ध्यातः श्मशानभूम्यां मासदिनैर्मेघवृन्दं साधयेत् / ततो यथाभिरुचितकाले वर्षापयति, विसर्जनेन 'विधारयति / इति नागराजसाधननियमः॥१३६॥ इदानी कर्मभेदैर्देवतासाधनमुच्यतेइत्याद्यं देवतानां भवति नरपते साधनं दैवतीनां प्रत्येकं मण्डलेऽस्मिन् स्वजिनकुलवशात् कर्मभेदैः समस्तैः / स्तम्भे शान्तौ च वश्ये परधनहरणे मारणोच्चाटनाये षत्रिंशद्योगिनीनां भवति खलु पुनर्जापहोमं स्वबीजैः // 137 // इत्याद्यमित्यादि / इह मण्डले उक्ताद्यदपरं देवतादैवतीनां साधनं भवति नरपते प्रत्येकं मण्डलेऽस्मिन् ए[293b]कवीरैः स्वजिनकुलवशाद वैरोचनादिकुलवशात्, कर्मभेदैः समस्तैः साधनं भवति / स्तम्भे शान्तौ वश्ये परधनहरणे मारणोच्चाटना वक्ष्यमाणसाधनं शिद्योगिनीनामन्यासां श्मशानपर्यन्तानां भवति खलु पुनर्जापहोम' च स्व-स्व मन्त्रबीजैर्भवति // 137 // 10 20 इदानीं शान्त्यादिध्यानमुच्यतेशान्ती ध्यानं च शान्तं शशधरधवला देवता शान्तरूपा रौद्रे ध्यानं च रौद्रं कषणघननिभा देवता रौद्ररूपा / वश्ये ध्यानं सरागं दिनकरवपुषा देवता रागमूर्तिः स्तम्भे ध्यानं समूढं वरकनकनिभा देवता स्तब्धरूपा // 138 // शान्तावित्यादि / इह शान्तौ ध्यानं च शान्तं शशधरधवला देवता शान्तरूपा ध्यातव्येति / रौद्रे मारणाद्ये ध्यानं रौद्रं कृष्णवर्णा देवता रौद्रमूर्तिः। वश्य ध्यानं सरागं देवता रक्तवर्णा रागमूर्तिः। स्तम्भने ध्यानं मूढं देवता पीतवर्णा स्तब्धरूपेति / यथा शान्तौ तथा पुष्टौ ज्वरोपशमने विषापहरणे च भवति / यथा मारणे तथोच्चाटने विद्वेषे ज्वरसंक्रामणे चेति / यथा वश्ये तथाकृष्टौ स्तोभने ज्वरोत्पादने च। यथा स्तम्भने 'तथा मोहने कोलने चेति नियमः // 138 // इदानीं गणकुलः शान्त्यादिसिद्धिरुच्यतेशान्तिः पुष्टिश्च राजन् ससुतजिनकुलैः सिद्धयते देवतीभिविद्वेषोच्चाटनं च प्रकृतिगुणवशात् सिद्धयते क्रोधजाभिः / 1. ग. विचार / 2. क. ग. छ. भो. इह / 3. ग. च. स्तम्भने / 4. ग. होमश्च / 5. ग. 'मन्त्र' नास्ति / 6. ग. 'तथा """कीलने नास्ति / 25