________________ 220 विमलप्रभाया [साधनादंष्ट्राकरालम् / सालमिति सर्पभूषणम् / व्याघ्रचर्मप्रवरनिवसनम् / भर्तृवच्छस्त्रहस्तं कालचक्रवदिति / मूर्नो मालानिबद्धं सकलजिनकुलैविशुद्धः। पञ्चवर्णैः कपालैः // 134 // विश्वाब्जे सूर्यमूनि स्फुरदमलकरं मण्डले विश्ववणे पादाभ्यां भूतनाथाक्रमितमतिबलात् संस्थितालीढपादम्। भूतादींस्त्रासयन्तं ह्यसुरफणिसुरान् ज्ञानसत्त्वैकभूतं ध्यायन्नेवैकमासं चितिभुवनगतं साधयेद् भूतवृन्दम् // 135 // इत्थंभूतं विश्वाब्जे सूर्यमण्डलोपरि स्फुरदमलकरं स्वच्छं मण्डलगृहे विश्ववणे एकवीरम्, मध्ये चतुर्दारेषु वज्राङ्कश'वज्रवज्रपाशवजवज्रघण्टा यथानुक्रमेण दत्त्वा पादाभ्यां भूतनाथमपराजितप्रेत नाथमाक्रमितमतिबलात्संस्थितालोढपादं भूतावीस्त्रासयन्तं गजचर्मधृतं करतर्जनीभ्याम् असुर फणिसुरांस्त्रासयन्तमिति / ज्ञानसत्त्वैकभूतम् / एभिर्मन्त्रपदैः, जःहूँ मैं हो ध्यायन् योगी, एवैकमासं चितिभुवनगतं श्मशानभूमिगतं साधयेद् भूतवृन्दमिति भूतादीनां यो नायकः, सं तया मूर्त्या पादतले पातितः सन् सपरिवारः सिद्धिं गच्छति / प्रेतो वा राक्षसादिक इति भूतादिसाधननियमः // 135 // इदानीं मेघवर्षापणाय नागराजसाधनमुच्यतेनागानब्जाष्टपत्रेष्वपि जयविजयौ पातयित्वाऽर्कमुनि पादाभ्यां स्तम्भयित्वा फणिपतिमिथुनं पद्मपत्रे स्थितानाम् / लागूलाग्रं च सर्व घनकुलमुदरान् मुञ्चतो वै समन्ताद् ध्यातः क्रोधेन्द्र एवं कतिपयदिवसैः साधयेन्मेघवृन्दम् / / 136 // [293a] नागानित्यादि। इह स एव वनवेगः क्रोधेन्द्रो ध्यातः सन् साधयेन्मेघवृन्दम् / कतिपयदिवसैरिति मासदिनैरेवमित्यनेन विधिना। नागानब्जाष्टपत्रेष्विति / अब्जपूर्वपत्रे कर्कोटः, अग्नौ पद्मः, दक्षिणे वासुकिः, नैऋत्ये शङ्खपालः, उत्तरे अनन्तः, ईशाने कुलिकः, पश्चिमे तक्षकः, वायव्ये महापद्मः, पूर्वाग्नौ कृष्णी, दक्षिणे( ण )नैऋत्ये रक्तौ, उत्तरेशाने शुक्लौ, पश्चिमवायव्ये पोती, अपि जयविजयो हरितनीलौ नागराजानौ पातयित्वाऽर्कमूनि अर्कमण्डले वामदक्षिणपादतले "नाभ्यूध्वं पुरुषाकारावधः सर्पाकारौ शिर उपरि सप्तफणचक्रवाही महामणिभिः स्फुरन्तावुत्तानको पातयित्वा, 'अपरे( र )नागराजान् पातयित्वा तेषां लाङ्गुलाग्रं प्रत्येकं जयोपरि पूर्वोत्तराणाम्, विजयोपरि दक्षिणपश्चिमानाम् / लागूलाग्रं च सर्वम् / एवं पावाभ्यां स्तम्भयित्वा फणिपतिमिथुनं 25 1. 2. ख. ग. च. छ. 'वज्र' नास्ति / 3. ग. च. 'नाथ' नास्ति / 4. ग. फणा / 5. क. नात्यूध्वं / १.क. यत्र।