________________ 5. पटले, 131-134 श्लो.] नानासाधनमहोद्देशः 219 भूम्यादीनां समन्तादमलमणिनिभो भेदकः शून्य एको नाद्यो नान्तो न मध्यस्त्वविषयविषयः साधितः कालचक्रः // 133 / / [292a] एकेत्यादि / इहैकवक्त्रो वा आदिशब्दात् त्रिमुखो वा चतुःपञ्चाद्यनन्तमुखो वा बहुकरचरणोऽनेककरचरणोऽनेकास्त्रधरः। अनेकवर्णोऽनेकसंस्थानः “विश्वमायाधरो राजा बुद्धविद्याधरो महान्" (ना० सं० 8.35 ) शून्यताक्षरधरो भगवान् प्रज्ञोपायात्मकः / तमोऽन्ते निशाकाले निशायोगेन दिवाकाले दिवायोगेन यः प्रज्ञापारमितायां योगं पश्यति, स आकाशे पश्यति निशायामभ्यवकाशे पश्यति दिवायाम् / एवं विभावितो बिम्बपर्यन्तम् / ततो नाडिकेन्द्वर्करोषादिति वामदक्षिणप्राण रोधात्, ददति समसुखमिति परमाक्षरसुखं ददाति / भूम्यादीनामिति पृथिव्यादीनां धातूनाम् / अमलमणिनिभो भेदक इति / इहामलमणिर्यथा स्पर्शमात्रेण पाषाणादिकं धातुकं रत्नं करोति न भेदको वेधक इति / तथा शून्य एको विमलो भूम्यादीनां शरीरधातूनां समन्ताद् वेधक इति / स शुन्यतारूपी नाद्यो नान्तोन मध्योऽविषयविषय इति। विषयविना विषयप्रतिभासो मायास्वप्नप्रतिसेनोपमः। साधितः कालचक्रः समसुखं ददातीति नियम इति श्रीमदादिबुद्धसाधनमुत्पन्नक्रमेणोक्तम्, अस्य विस्तरो ज्ञानपटले वक्तव्य इति / / 133 // ___10 15 इति श्रीमूलतन्त्रानुसारिण्यां लघुकालचक्रतन्त्रराजटीकायां द्वादशसाहसिकायां विमलप्रभायां उत्पन्नक्रमसाधनमहोद्देशश्चतुर्थः। (5) नानासाधनमहोद्देशः वज्रवेगं नमस्कृत्य विश्ववज्रधरं प्रभुम् / . नायकं क्रोधराजानां नानासाधनमुच्यते // क्रोधेन्द्रं वज्रवेगं द्वयधिकजिनकरं वेदवक्त्रं द्विपादं पिङ्गाक्षं पिङ्गकेशं जिनपतिमुकुटं तीक्ष्णदंष्ट्राकरालम् / सर्पालं व्याघ्रचर्मप्रवरनिवसनं भर्तृवच्छस्त्रहस्तं मूर्नो मालानिबद्धं सकलजिनकुलैः पञ्चवर्णैः कपालैः // 134 // क्रोधेन्द्रमित्यादिना। इह क्रोधेन्द्रं वज्रवेगं हूँकारवज्रनिष्पन्नं पूर्वोक्तसाधनविधि[292b ]ना / द्वयधिकजिनकरमिति षड्विंशतिभुजं गजचर्मपटधारिणम् / वेदवक्त्रमिति चतुर्मुखम् द्विपादं पिङ्गाक्षं पिङ्गकेशं जिनपतिमुकुटमित्यक्षोभ्यमुकुटं तीक्ष्ण 25 1. भो. gNis (द्वि ) / 2. च. निरोधात् / 3. ग. च. तीति / 4. भो. 'इह' नास्ति /