________________ T358 218 विमलप्रभायां - [साधना- . स्कन्धारिष्टेभ इति / स्कन्धमार इव इभस्तस्य क्षयाल्लवमात्रता चर्म। तदेवोद्धृतं सकलं पाटयित्वा स्कन्धमारेभम् अघ्रियुग्माद् धृतमङ्घ्रियुग्मं लम्बमानं गजचर्मपटमिति धृतम् / सव्येन शिरो वाम भागे चरणम् / दैत्येन्द्र इति देवपुत्रमारस्तस्याविद्याप्रवृत्तिरिति / असृगिति / तस्य क्षयाल्लवमानं कपाले रुधिरं तवसृक्कपालं यस्य प्रवरकरतले स दैत्येन्द्रासृक्कपालप्रवरकरतल इति / मृत्युमारास्यहस्त इति / मृत्युमारक्षयाल्लवमात्रावरणमास्यं हस्ते यस्य स मृत्युमारास्यहस्तः। क्लेशारिष्टाइघ्रिपातीति क्लेशमारक्षयाल्लवमात्रं क्लेशावरणं न निर्दग्धं यत्तत् प्रेतम्, तस्याघ्रितले पतितम्, तेन क्लेशारिष्टाज्रिपाती। एवं लवमात्रावरणेद्वधिकजिनकर इति षड्विंशति करः। शेषभुजे कालचक्रवत् प्रह[291b]रण :, मुण्डकपालमालाधरः, व्याघ्रचर्मनिवसनः, अस्थिमुद्रानागेन्द्र भूषणो भावनीयः / परार्थमिति दुर्दान्तवैनेयार्थमिति नियमः // 131 // इदानीं तस्य प्रज्ञाया लक्षणमुच्यतेमातुस्तत्रैकवक्त्रं यमकरकमले कतिका श्रीकपालं / सूर्यादिन्दुः स्वचारं चरति गतिवशाद् द्वादशाधिक्यमेकम् / तस्मात् कायप्रभेदैर्भवति जिनपतिविश्वमाता तथैव प्रज्ञोपायाङ्गभावः समसुखफलदैश्चन्द्रसूर्यप्रचारैः // 132 // 13 मातुरित्यादि / इह कायभेदेन सूर्यः प्रज्ञा, चन्द्र उपायः / स च चन्द्रः सूर्यचाराद् द्वादशाधिक्यमेकं चारं यावच्चरति मासं प्रतित्रयोदशराशींश्चरति / सूर्य एकराशि चरति / तेन सूर्यचारवशेन मातुस्तत्रैकवक्त्रं मासशुद्धया। यमकरकमलं हस्तद्वयकमलम् / तस्मिन् करकमले सव्येऽवसव्ये कतिका श्रोति नरकपालम् / तस्मात कायप्रभेदैरिति चन्द्रराशिपक्षभेदैः षड्पविशतिभिः षड्'विंशतिभुजो जिनपतिर्भवति / विश्वमाता तथैव कायभेदैः सूर्यस्यैकराशिः / पक्षभेदैद्विभुजा विश्वमातेति / नग्ना मुक्तकेशा शेषा भगवानिवाभरणभूषितेति / एवमुक्तैः प्रज्ञोपायाङ्गभावैः। समसुखफलदैरक्षरसुखफलदैः, चन्द्रसूर्यप्रचारैः श्वासनिश्वास रोधैर्भावनीय इति नियमः // 132 // इदानीं विश्वरूपभावनोच्यतेएकाद्यानन्तवक्त्रो बहुकरचरणोऽनेकवर्णस्तमोऽन्ते प्रज्ञोपायात्मको वै ददति समसुखं नाडिकेन्द्वरोधात् / 1. ग. च. गेन चरणः। 2. च. भुजः। 3. ग. च. भो. विभूषणो। 4. भो. 'तस्मिन्' नास्ति / 5.6. ग. त्रिंश / 7. ख. ग. च. विभूषितेति / 8. च. रैरिति ९.च. निरोध।