________________ 217 10 पटले, 125-131 श्लो.] उत्पन्न क्रमसाधनमहोद्देशः इदानीं शान्त्याद्यर्थं देवताभावनोच्यतेश्वेतः शान्ति च पुष्टिं स्वमनसि कुरुते रक्त आकृष्टिवश्यं पीतः स्तम्भं च मोहं कषणघननिभं मारणोच्चाटनं च / ध्यातं जप्तं तथैव स्वमनसि कुरुते कायवाक्चित्तवज्रं भूतानां मण्डलस्थं त्रिभुवननिलये साधयेत् कर्मभेदैः // 130 // श्वेत इत्यादि / इह कालचक्रो भगवानेकवीरो वा प्रज्ञोपायात्मको वा पश्चात्मको वा वक्त्रादिभेदैः शान्त्यादिकं भवति। यदा शान्ति करोति योगी, तदा योगिना कायवक्त्रनायकं कृत्वा शुक्लवर्णो भावनीयश्चन्द्रमण्डले ललाटस्थः। श्वेतः शान्ति पुष्टिं च करोति / रक्त आकृष्टि वश्यं च करोति वाग्वज्र नायकः सूर्यमण्डले कण्ठस्थो मनसि ध्यातः सन् / पीतः स्तम्भनं 'मोहनं च करोति कालाग्निमण्डले नाभिस्थो ध्यातो ज्ञानवज्रनायक इति / कृष्णो मारणमुच्चाटनं 'च करोति विद्वेषं च करोति हृदये राहमण्डले चित्तवचनायक इति / एवं भूतानां मण्डलस्थो दनुभुजगकुलं साधयेद् भावितोऽसाविति। दैत्यभुजगानां कुलमष्टविधं तदेव कुलं साधयेद्वक्ष्यमाणं गारुडे नात्र विस्तारितमिति / ध्यातं जप्तं तथैव स्वमनसि कुरुत इति। [291a]एकमुखद्विभुजदेवता कायादिवर्णभेदेन भाविता वक्ष्यमाणक्रमेण शान्त्यादिकं करोति / एवं भूतानां मण्डलस्थमिति तोयादिमण्डलस्थं वनचतुष्टयम्, 'साधयेत् त्रिभुवननिलये कर्मभेदैरनेकैरिति नानाविधानैरित्यर्थः // 130 // इदानी दुर्दान्तदमनाय गजचर्मपटाधुग्भावनोच्यतेपक्षाधिक्योद्भवाभ्यां मणिकनकनिभाभ्यां च सव्येतराभ्यां स्कन्धारिष्टेभचर्मोद्धृतमपि सकलं पाटयित्वाङ्घ्रियुग्मात् / देत्येन्द्रासृक्कपालप्रवरकरतलो मृत्युमारास्यहस्तः क्लेशारिष्टाज्रिपाती द्वयधिकजिनकरो भावनीयः परार्थम् // 131 // पक्षेत्यादि। इह कालविशुद्धया वर्षस्य चतुर्विंशतिपक्षश्चतुर्विंशतिकरो वज्रमालाधरः श्रीमानिति सिद्धः। अस्य पुनर्गजचर्मपटाधारिणोऽधिकमासेन सहितं यद्वर्ष त्रयोदशमासात्मकम्, तस्य पक्षैः षड्विंशतिभिर्भुजविशुद्धिः। अतः पभाषिक्योद्भवी भुजद्वयौ, ताभ्यां भुजाभ्यां मणिकनकनिभाभ्यामिति कृष्णपीताभ्यां "सव्येतराभ्याम् / 20 १.क. ख. च. छ. त्मकायुक्तो वा। 2. भो. 'योगी' नास्ति / 3. छ. 'कृत्वा"... वाग्वज्र' नास्ति / 4. क. छ. वज्र, ग. चक्र / 5. छ. मोहं च / 6. ग. च. भो. 'च करोति' नास्ति / 7. च. विद्वेषणं च / 8. क. ख. ग. छ. भावयेत् / 9. ग. 'कृष्णपीताभ्यां नास्ति / 10. च. 'सव्यतराभ्याम' नास्ति / 28