________________ 216 विमलप्रभायां [साधना गमनं नाम चर्या, सा इष्टसिद्धिर्महामुद्रासिद्धिस्तस्याः प्रकर्षेण 'दात्रीष्टप्रदेति सिद्धम् / बाह्ये पुनः पञ्चतथागतकुलनारीणां ग्रहणं नारीचर्या, तासु नारीचर्यासु मन्थानं ब्रह्मचर्यम् / तथा नेन योगिना कर्तव्यमिति / तथा कोऽसौ बोधिचित्तस्य नाडीसंचार इत्यूर्ध्वरेतसो गमनं कर्तव्यमिति नियमो मूलतन्त्रे / इति "नारीचर्यानियमः // 125 // चिन्ताकाङ्क्षा ज्वरोऽङ्गे वरमुखकमले शुष्कद्रव्याप्रवृत्तिः कम्पोन्मादश्च घूर्मा प्रभवति मनसो विभ्रमस्तीव्रमूर्छा / धूमाद्या वज्रिणस्ताः प्रकटदशविधाः प्राणिनोऽङ्गेष्ववस्था लोके ता मन्मथस्य प्रकटितनियता को जिनः कः स कामः // 126 / / या बिन्दोः श्वेतधारा पतति दिननिशं मामकी सासुरा नो .. गोक्वाद्यं चक्षुरादेः स्फुरणमनुदिनं नान्यमांसं कदाचित् / सेवा पञ्चामृतानां स्वकुलभुविगतैर्देवतैः शुद्धिकाये शून्ये चित्तप्रवेशात्. समरसकरणं मैथुनं तन्न योनौ // 127 // . [290b] दानं त्यागो धनस्याच्युतिरपि मनसः स्त्रीप्रसङ्गाच्च शीलं क्षान्तिः शब्दाद्यवेशो ह्यभयगतिविनाशोऽनिलस्यैव वीर्यम् / ध्यानं प्रज्ञा च चित्तं सहजसुखगतं सर्वगा सर्वभाषा तस्याः सत्त्वार्थमृद्धिर्भवनिधनमजप्राप्तिरन्याश्चतस्रः // 128 // एकाले शक्तियुक्ते नवपदसहिते पञ्चविंशात्मकाये ध्याते मुद्रादयो वे कतिपयदिवसः सिद्धयः संभवन्ति / स्तम्भं शान्ति च वश्यं भुवननिधनतां वक्त्रभेदैः करोति भूतानां मण्डलस्थो दनुभुजगकुलं साधयेद् भावितोऽसौ // 129 / / इह पञ्चविंशत्यधिकशतवृत्तात् वृत्तचतुष्टयं सुबोधम् / 'तेनात्र न विस्तारितमिति // 126-129 // 1. भो. 'इष्टप्रदेति सिद्धम्' नास्ति, ग. च. छ. सिद्धिप्रदेति / 2. ग. स्वमास्थानं / 3. भो. Sal ( आनन ) / 4. ग. कासौ, क. ख. छ. क्रोशो / 5. भो. ITsa Bahi sPyod Pa ( डनीचर्या ) / 6. भो. 'तेनात्र" रितमिति' नास्ति / /