________________ पटले, 119-123 श्लो,] उत्पन्नक्रमसाधनमहोद्देशः 213 एवं देवतासाधने विकल्पभावना, तत्त्वसाधने विकल्परहितैश्चतुरङ्गेरिति न्यायः // 120 // इदानीं प्राणायामलक्षणमुच्यतेप्राणायामः समन्तात् समसुखफलदो मस्तके यावदिष्टः तस्मादूवं ह्यनिष्टो मरणभयकरः स्कन्धनि शहेतुः / उष्णीषं भेदयित्वा परमसुखपदे योजनीयो व्रजन् वै स्कन्धाऽभावेऽपि योगी व्रजति समसुखं किन्तु लोकेऽप्रसिद्धिः // 121 / / 10 प्राणेत्यादि / इह शून्यताबिम्बे दृष्टे सति यः प्राणायामो योगिना कर्तव्यः, स यावन्मस्तके इति शिरोव्यथां न करोति / स च स[ 288b]मसुखफलदो भवति / तस्मादूर्ध्वमिति शिरोव्यथान्तादनिष्टो मरणभयकरो भवति, स्कन्धनि शहेतुभूतो भवति / अथ योगबलेनोष्णीषं भेदयित्वा प्राणो व्रजन् योगिना परमसुखपदे शून्यताबिम्बे योजनीयो वै एकान्तम। एवं स्कन्धाऽभावेऽपि योगी व्रजति समसखं बद्धबिम्बमिति योगीति योगचित्तं व्रजति / किन्तु लोकेऽप्रसिद्धिरिति योगी मृतोऽयमिति प्राणायामनियमः // 121 // 15 मध्ये प्राणप्रवेशो विषयविरहितालिङ्गनं विश्वमातु: पद्माविष्टं स्ववज्रस्फरणमपि तन्द्वर्कमध्ये प्रवेशः / सौख्यं बीजाप्रपाते सुरतरतिगतं योगिनां योगमेतन्मुद्रासिद्धयर्थहेतोः परममपि विभोः श्रीरहस्याद् रहस्यम् // 122 // अपरं वृत्तं सुबोधम् // 122 // इदानी देवताविसर्जनमुच्यतेउष्णोषे पञ्चशूकं भवति हि कुलिशं बाह्यशूकं द्विगुण्यं वजं स्याद् धर्मचक्रे द्विगुणितमपरं तस्य चान्यद् द्विगुण्यम् / तस्याप्यन्यद् द्विगुण्यं भवति सहजसंभोगनिर्माण चक्रे तद्गर्भेऽप्येकशूकं समसुखफलदं गुह्यपद्मोदरस्थम् // 123 // 'उष्णीष इत्यादि। इह मण्डलराजानी कर्मराजानी बिन्दुयोगं सूक्ष्मयोगं भावयित्वा पूजां स्तुतिं कृत्वा “नमस्ते वरदवज्राग्र" (ना. सं. 11.1) इत्यादिना, 1. ग. 'उष्णीष इत्यादि' नास्ति /