________________ T356 212 विमलप्रभायां [ साधनाइदानीं हठयोग उच्यते। इह यदा प्रत्याहाराविभिबिम्बे दृष्टे सत्यक्षरक्षणं नोत्पद्यते, अयन्त्रितप्राणतया, तदा नादाभ्यासाद् वक्ष्यमाणाद् हठेन 'प्राणं मध्यमायां वाहयित्वा प्रज्ञाऽब्जगतकुलिशमणौ बोधिचित्तबिन्दु निरोधादक्षरक्षणं साधयेन्निस्पन्देनेति हठयोगः / / 119 // इदानीं शून्यताबिम्बसाधनाय दृष्टिरुच्यतेसेवायामादियोगो नभसि दशविधश्चक्रिणः क्रोधदृष्टया दृष्टया विघ्नान्तकस्यामृतपथगतया चोपसाध्ये षडङ्गः / प्रज्ञासृष्टेन्दुबिन्दोरपि कुलिशमणो त्र्यक्षरः साधने स्यात् / सौख्याऽनष्टैकशान्तः सहज इह महासाधने ज्ञानयोगः // 120 // [288a] ___ सेवेत्यादि / इह सेवेत्यादिधूमादिनिमित्तभावना, तस्यां सेवायामादियोगोधूमादिनिमित्तग्रहणं चित्तस्येति / स च दशविधो धूमादिना साधं प्रत्ययो भवति। तेन दशविधः। स च चक्रिण इत्युष्णीषस्य। क्रोधदृष्ट्या इति ऊर्ध्वदृष्ट्यानिमिषया निमित्तं भवति रात्रियोगेन चतुर्विधम्, दिवायोगेन षड्विधम् / ततो बिम्बपर्यन्तं सेवाङ्गं भवति प्रत्याहारेण ध्यानेनेति / दृष्ट्या विघ्नान्तकस्येति विघ्नान्तकोऽमृतकुण्डली, तस्य दृष्टिरमृतस्थानगता ललाटगता, तया दृष्ट्या विघ्नान्तकस्यामृतपथगतया चोपसाधने षडङः। चकारात प्राणायामो धारणा कर्तव्या। प्राणस्य बिम्बे दष्टे सति उपसाधनम् / प्रज्ञासृष्टेन्दुबिन्दोरिति / इह प्रज्ञारागेण सृष्टश्चासाविन्दुबिन्दुः सृष्टेन्दुबिन्दुः, तस्य प्रज्ञासृष्टबोधिचित्तबिन्दोरपि कुलिशमणौ गतस्य यस्त्र्यक्षरो योगो भवति गुह्ये नाभौ हृदये, स साधने स्यादिति साधनाङ्गे तृतीये भवति / एवं साधनाङ्गं कर्तव्यम् / सौख्याऽनष्टैकशान्त इति / इह सौख्येनानष्टेन बोधिचित्तस्य य एकक्षणः, स शान्त इत्युच्यते। सहज इह महासाधने ज्ञानयोग इति चित्तस्याक्षरसुखेन सहैकत्वमिति महासाधनाङ्गं चतुर्थम् / एवं ज्ञानसाधने चतुरङ्गम् / देवतासाधन उत्पत्तिक्रमेण पूर्वोक्तं लौकिकम्, लोकोत्तरतत्त्वसाधनमुत्पन्नक्रमेण / तां हिं सत्यद्वयं समाश्रित्य बुद्धानां धर्मदेशना। लोकसंवृतिसत्येन सत्येन परमार्थतः॥ ( म. शा. 24.8 ) इति भगवतो नियमः। 'पुनः क्रमद्वयं समाश्रित्य देशना वघिणो मम / उत्पत्तिक्रमेणका उत्पन्नक्रमतोऽपरा // इति / (गु. त. 18.33 ) 1. क. ख. ग. छ. क्षणो। 2. भो. 'प्राणं' नास्ति / 3. ग. निरोषक्षणरक्षणं / 4. क. ख. ग. भो. इतः परं 'बिम्बमेवम्' इत्यधिकः पाठः / 5. ग. 'दृष्ट्या""कस्येति' नास्ति / 6. भो. 'योगो' नास्ति / 7. च. नाऊ। 8. भो. De bSin Du gSuis Pa (तथाह)। 9. ग. 'पुनः'नास्ति /