________________ पटले, 115-119 श्लो.] उत्पन्नक्रमसाधनमहोद्देशः 211 निःस्पन्दगतिरधिमात्रेति / एवं कर्ममुद्राक्षरसुखदायिनी, ज्ञानमुद्रा स्पन्दसुखदायिनी, महामुद्रा निःस्पन्दसुखदायिनी। एवं त्रिमुद्राभावना षडङ्गयोगे भगवतोक्ता / इति षडङ्गयोगो भावनीयो योगिना बुद्धत्वायेति // 117 / / इदानीं प्रत्याहारादिफलमुच्यतेप्रत्याहारेण योगी विषयविरहितोऽधिष्ठ्यते सर्वमन्त्रः पञ्चाभिज्ञानलाभी भवति नरपते ध्यानयोगेन शुद्धः / प्राणायामेन शुद्धः शशिरविरहितः पूज्यते बोधिसत्त्वेरिक्लेशादिनाशं विशति दशबलं धारणाया बलेन // 118 / / 10 प्रत्येत्यादि / इह प्रत्याहारेण योगी यदा विशुद्धो भवति बिम्बेन स्थिरीभूतेन, तदा सर्वमन्त्रैरधिष्ठयते, वचसा वरदानादिकं ददाति / पञ्चाभिज्ञानलाभी भवति नरपते ध्यानयोगेन शुद्ध इति / इह यदाऽनि मिषितचक्षुर्भवति तदा दिव्यचक्षुर्भवति। एवं दिव्यश्रोत्रो ध्यानेन शुद्धो भवति / प्राणायामेन शुद्ध इति। इह यदा रविशशिमार्गरहितो योगी भवति सदा मध्यमावाहकः, तदा प्राणायामेन शुद्धः सन् पूज्यते बोधिसत्त्वैः, प्रशंस्यत इत्यर्थः। मारक्लेशादिनाशं विशति दशबलमिति शून्यताबिम्बम् इह ग्राह्यग्राहकचित्तं विशति धारणाया बलेनेति प्राणस्य गतागतक्षयेण एकलोलीभवति // 118 / / [287b] 15 20 संशुद्धोऽनुस्मृतेः स्याद् विमलमपि प्रभामण्डलं ज्ञानबिम्बात् तस्माच्छुद्ध: समाधौ कतिपयदिवसैः सिद्धयते ज्ञानदेहः / प्रत्याहारादिभिर्वै यदि भवति न सा मन्त्रिणामिष्टसिद्धिर्नादाभ्यासाद्धठेनाब्जगकुलिशमणौ साधयेद् बिन्दुरोधात् / / 119 // संशुद्धोऽनुस्मृतेरिति / इहानुस्मृतिबिम्बालिङ्गनं चित्तस्य सर्वविकल्परहितत्वम्, तस्माच्छुद्धो यदा तदा बिमलं प्रभामण्डलं भवति / अपि च शब्दाद् रोमकूपात् स्फरन्ति पञ्चरश्मयो निश्चरन्ति ज्ञानबिम्बाच्छून्यबिम्बादिति / तस्माच्छुद्धः समाधाविति / इह ग्राह्यग्राहकचित्तयोरेकत्वेन यदक्षरसुखं भवति, तत्सुखं समाधिरुच्यते। तस्मात् समाधिशुद्धो वैमल्यं गतः कतिपयदिवसैस्त्रिवर्षत्रिपक्ष दिवसः सिद्धयते ज्ञानदेह इति। दशवशितादिकं प्राप्तो बोधिसत्त्वो भवतीति प्रत्याहारादिनियमः। १.ख. ग. छ. भो. एषां। 2. च. यदा योगी। 3. ग. च. भो. मिषच / 4. च. भो. 'इह' नास्ति / 5 छ. दिनः /