________________ 210 विमलप्रभायां [साधना 10 प्रतिष्ठितनिर्वाणोऽवाते वायुना नीयत इत्यर्थः / एकैकः पञ्चभेदैरिति / अत्र एकैकयोगः पञ्चमण्डलवाहकः / आदिकाद्यैरिति स्वरव्यञ्जनैः वामदक्षिणप्राणसञ्चारनिरोधैः॥११५॥ इदानीं प्रत्याहारादिलक्षणमुच्यतेप्रत्याहारो दशानां विषयविषयिणामप्रवृत्तिः शरीरे प्रज्ञा तर्को विचारो रतिरचलसुखं ध्यानमप्येकचित्तम् / प्राणायामो द्विमार्गः स्खलनमपि भवेन्मध्यमे प्राणवेशो बिन्दी प्राणप्रवेशो ह्यभयगतिहतो धारणा चेकचित्तम् / / 116 / / प्रत्येत्यादि / इह प्रत्याहारो नाम शरीरे विषयविषयिणां दशानां सम्बन्धेनाप्रवृत्तिर्विज्ञानस्य शून्यबिम्बे, विषयेषु प्रवृत्तिरन्यैश्चक्षुरादिभिः पञ्चविधैरिति / तथा तस्मिन्नेव बिम्बे प्रजेत्यालोकनम् / तर्क इति भावग्रहणम्। विचार इति तस्य निश्चयार्थः। रतिरिति बिम्बासक्तिः। अचलसुखमिति बिम्बेन सह चित्तस्यैकी-. करणम् / एवं ग्राह्यग्राहकभेदेन ध्यानं दशविधम् / इह प्राणायामो नाम द्विमार्ग इति वामदक्षिणमार्गः। स्खलनम् निरोधो मध्यमे मार्गे प्रवेशः, स च दशविधो दशमण्डलरोधतः। इह बिन्दाविति ललाटे प्राणप्रवेशः। उभयगतिहत इति गमनागमनरहितः। धारणा प्राणस्य ललाटे एकचित्तं नाम // 116 // चण्डाल्यालोकनं यद्भवति खलु तनौ चाम्बरेऽनुस्मृतिः स्यात् प्रज्ञोपायात्मकेनाक्षरणसुखवशाज्ज्ञानबिम्बे समाधिः / एतन्मृद्वादिभेदेस्त्रिविधमपि भवेत् साधनं विश्वभर्तुस्तिस्रो मुद्रास्त्रिमात्रास्त्रिविधगतिवशात् कर्मसङ्कल्पदिव्याः // 117 // - [287a] चण्डाल्यालोकनं यत् त्रिभवस्याम्बरे साऽनुस्मृतिर्दशविधा प्रोक्ता / प्रज्ञोपायात्मकेनेति ज्ञेयज्ञानैकलोलीभूतेन / अक्षरणसुखवशाज्ञानबिम्बे समाधिश्चेति / सापि दशविधा प्राणादीनामभावत इति। एवं षडङ्गयोगसाधनम् / एतन्मृद्वादिभेदैस्त्रिविधमपि भवेत् साधनं विश्वभर्तुः कालचक्रस्य / तिस्रो मुद्रास्त्रिमात्रा इति। त्रिविधगतिवशादिति / इह बोधिचित्तस्य अक्षरगतिर्मुदुमात्रा, स्पन्दगतिर्मध्यमात्रा, 15 20 1. 'एकैकः""निरोधः' गृहीतोऽयं पाठो भोटानुसारी, संस्कृतहस्तलेखेषु नास्ति-Re Re dBye Ba INa rNams Kyis Te Ses Pa Ni hDir sByor Ba Re Re Ni dKyil hKhor INa hBab Paho. A Sogs Ka Sogs rNam Kyi Ses Pa Ni dByans Dan gSal Byed gYon Dan gYas Kyi Srog Yan Dag Par rGyu Ba hGog Pas So. 2. च. भो. पूर्वोक्ता /