________________ T355 10 पटले, 113-115 श्लो.] उत्पन्नक्रमसाधनमहोद्देशः 209 श्चतुर्षा भवतीति सेवाले। उपसाधनाले 'मृदुर्दढः / साधनाङ्गे तथैव षोडशवर्षावधेरिति नियमः। अत्र मृदुर्जातबालः / दन्तोत्थानान्मध्यमबालः / दन्तपातात् कुमारः। पुनर्दन्तोत्थानात् षोडशवर्षोवं प्रौढ , पुत्रदुहितृजनकत्वादिति। एवं सर्वदेवतानां चतुर्विधमङ्गं योगिना भावनीयमिति लौकिकसत्यनियमः। इदानीं परमार्थसत्येन बुद्धबिम्बनिष्पत्तिरुच्यते-इह प्रथमं शून्यताबोधिरिति, अन्धकारे न किञ्चिदपि चिन्तनीयम् / ततः संग्रहश्चन्द्रबिन्दोरिति बिन्दुपर्यन्तं धूमादिनिमित्तग्रहणम् / बिम्बोत्पत्तिश्च तस्मादिति तस्माद्विन्दोविश्वदर्शनं बिम्बोत्पत्तिः / प्रवररसकुलैरिति निरावरणैः षट्स्कन्धैः / अक्षरन्यास इति प्रादेशिकस्कन्धधात्वायतनादीनां निरोधः। अतो मृद्वादिभेदो भूमिलाभेन भवति, यावन्न द्वादशभूमीश्वरो भवति। तत: द्वादशाकारसत्यार्थः षोडशाकारतत्त्ववित् / विंशत्याकारसंबोधिविबुद्धः सर्ववित् परः॥ (ना. सं. 9.15) इति नियमः // 114 // इदानीं षडङ्गयोग उच्यतेप्रत्याहारो जिनेन्द्रो भवति दशविधो ध्यानमक्षोभ्य एव प्राणायामश्च खड्गी पुनरपि दशधा धारणा रत्नपाणिः / डोम्ब्यां चानुस्मृतिः स्यादपि कमलधरः श्रीसमाधिश्च चक्री एकैकः पञ्चभेदैः पुनरपि च यतो भिद्यते ह्यादिकाद्यैः // 115 / / - प्रत्याहार इत्यादिना / इह प्रत्याहार आदिकर्मणि जिनेन्द्र इति ज्ञानस्कन्धः। स च निमित्तभेदेन दशविधो धूममरीचिखद्योतदीपज्वालाचन्द्रादित्यराहुकलाबिन्दुदर्शनभेदेनाकल्पितो ज्ञानस्कन्धः। ध्यानमक्षोभ्य एव दशविधो विज्ञानस्कन्धो विषयविषयिणां दशानामेकत्वं विश्वबिम्बे ध्यानमिति / प्राणायामश्च दशविधः। खड्नोति संस्कारस्कन्धः, वाम दक्षिणदशमण्डलैकलोलीभूतत्वादिति / पुनरपि दशधा धारणा [286b] रत्नपाणिरिति वेदनास्कन्धः। प्राणस्य धारणा नाभिहृत्कण्ठललाटोष्णीषकमले गतागतभेदेन दशविध इति / डोम्ब्यां चानुस्मृतिः स्यादपि कमलधर इति संज्ञास्कन्धो दशविधः। स चानुस्मृतिझैम्ब्यां मध्यनाड्यां दशकामावस्थाभेदत इति / श्रीसमाधिश्च चक्रीति वैरोचनो दशविधः। समाधिर्दशवायूनां निरोधत इति / एवं भगवान 20 25 1. क. छ. 'मृदुदृढः / साधनाङ्गे' नास्ति / 2. ग. च. इत्यादि / 3. ग. दशदिशो / 4. ग. दक्षिणेन। 27