________________ 10 208 विमलप्रभायां [साधनामन्त्रजापाविभिश्चेति। इह मन्त्रजापो नाम प्राणसंयमः। आदिशब्देन रेचकपूरककुम्भकयोगः सदा सेवा, तया देवता वरदा भवन्ति, न प्राणेनायन्त्रितेन वाग्जल्पितेनेति नीतार्थः / नेयार्थेन पुनरक्षसूत्रादिना जापादिकं कर्तव्यं सामान्यसिद्धयर्थम्। . इदानीमुपसाधनमुच्यते-प्रत्येत्यादि। इह प्रत्याहार इति / इह संसारिणामाहार श्चक्षुरादीन्द्रियै रूपादिविषयग्रहणम्, तत्परित्यागः प्रत्याहार इत्युच्यते / शू[ 285b ]न्यताबिम्बेऽन्यैश्चक्षुरादिभिर्मासाद्यैरन्यरूपादिविषयग्रहणमुपसाधनम् / तथा ध्यानं प्राणायामश्च धारणा / कुलिशकमलजेनामृतेनाच्युतेनोपसाधनं नीतार्थेन, "बाह्ये देवतोत्सर्जनेन नेयार्थेनेत्युपसाधनसिद्धिः। इदानीं साधनमुच्यते-आनन्देत्यादि / "इहानन्दे त्रिवज्राः कायवाक्चित्तबिन्दवोऽन्जसमरसगता भावना साधनं स्यात् / हुन्नाभिगुह्ये बिन्दूनां स्थितिरित्यर्थः। एवं साधनम् / ततो महासाधनं प्रज्ञासङ्गेऽच्युतं सुखं 'सम्भवति यदा, तदा खलु महासाधनं सूक्ष्मयोगादिति। सुषुम्नानाडि कोवं शुक्रसंयोगान्महासाधनमित्युच्यते नीतार्थेन। नेयार्थेन पुनः प्रज्ञाधर्मोदयनासिकाग्रे सर्षपादिकमिति नियमः। एवं महासाधनं भवति // 113 // इदानीं 'मृद्वादिमात्राभेदेन सेवादिकमुच्यतेआदी वै शून्यताबोधिरपि खलु ततः संग्रहश्चन्द्रबिन्दोबिम्बोत्पत्तिश्च तस्मात् प्रवररसकुलै रक्षरन्यास एव / एषा सामान्यसेवा जलनिधिकुलिशैः साधनं मध्यमं च अत्रोपायश्चतुर्धा भवति मृदुदृढः साधनाङ्गे तथैव // 114 // आदावित्यादि। इहोत्पत्तिक्रमे प्रथमं शून्यताबोधिरिति प्राणिनां मरणान्ते स्कन्धपरित्यागादुपपत्यंशिकस्कन्धग्रहणाद्यदन्तरालं शून्यताक्षणमेकं त्रिभवदर्शनं शून्यमित्युच्यते। खलु निश्चितम्। ततः क्षणात् पश्चात् . संग्रहश्चन्द्रबिन्दोरिति / इहालयविज्ञानस्य मातृगर्भे शुक्रबिन्दूनां ग्रहणं नाम संग्रहः। ततः शुक्रादिग्रहणात् तस्माद् बिम्बोत्पत्तिर्नाम सप्तमासैर्गर्भनिष्पत्तिः, "कायनिष्पत्तिरित्यर्थः। ततः प्रवररसकुलैरिति षट्स्कन्धैश्चक्षुरादीनामक्षरन्यासो रूपादिविषयप्रवृत्तिरिति / एवं देवतासाधनेऽपि कल्पनात्मकं भावयेदादिकर्मिकः। एषा सामान्यसेवा जलनिधिकुलिशैरिति / कायवाक्चित्तज्ञानवनिष्पन्नः साधनं मध्यमं च प्रा[236a]णनिष्पत्तिः। अत्रोपाय 1. च. रश्च च / 2. क. ख. छ. ततः। 3. ग. धारणया, च. धारणात् / 4. ग. बाह्म / 5. भो. Dir dGah Ba La Sogs rNams Kyis (इहानन्दाद्यः)। 6. ग. भवति / 7. च. कोर्वे / 8. भो. मृद्वधिमात्र / 9. क. च. छ. तत् / 10. ग. लयन / 11. ग. 'कायनिष्पत्तिः' नास्ति / Miami Ki (कहानन्याय)