________________ 10 पटले, 110-113 श्लो.] उत्पन्नक्रमसाधनमहोद्देशः 207 प्राणसंचारः। त्रिविधतिगत इति / 'वामे गतिगतः प्राणः कायवज्रजाप इत्युच्यते / दक्षिणे गतिगतः प्राणो वाग्जाप इत्यच्यते। मध्यमागतिगतः प्राणश्चित्तजाप इत्युच्यते / एषां निरोधाद् अनाहता सर्वज्ञभाषा भवति / तेनायं षडङ्गयोगो भावनीयः प्रत्याहाराविषभिरिति। प्रत्याहारस्तथा ध्यानं प्राणायामश्च धारणा। अनुस्मृतिः समाधिश्च षडङ्गो योग इष्यते // इति / / (गु० त० 18.140) एभिरभ्यस्यमानैर्वक्ष्यमाणैः सुकनककमल इति नाभिकमले कायवाक्चित्तयोग इति त्रिविधगतिगतस्य प्राणस्य निरोध इत्यर्थः। ततो निरोधादानन्दाद्यैरित्यानन्दपरमविरम सह[285a] जैर्वज्राब्जैः समरसगतैरच्युतत्वाद् भावनेयं त्रिवज्रा शुक्रविण्मूत्र- निरोध इत्यर्थः / तथा मूलतन्त्रे मध्यमोत्तमश्वासेन गन्धोदक युतेन च। कुलिकां पूजयेन्नित्यं कालविशेषेण दूतिकाः // __ इति नियमः / ततः प्रज्ञाब्जे गुह्यकमले चित्तबिन्दौ स्थिते सति सहजसुखवशादित्यक्षरसुखवशाद् भावनाऽनाहता स्याद् ऊर्ध्वरेतस इति // 112 // .. इदानीं सेवादिकमुच्यते सेवा पञ्चामृताद्यैर्जलनिधिकुलिशैमन्त्र जापादिभिश्च प्रत्याहारादिभिः स्यात् कुलिशकमलजेनामृतेनोपसिद्धिः / आनन्दाद्यैस्त्रिवज्राब्जसमरसगता भावना साधनं स्यात् प्रज्ञासङ्गेऽच्युतं संभवति खलु महासाधनं सूक्ष्मयोगात् // 113 // सेवेत्यादि / इहादिकमिकेण प्रथमं सेवा कर्तव्या 'साधनविधिना। सेवा पञ्चामृताधैरिति / बाह्ये पञ्चामृतं विडादिकम् / आदिशब्देन गोक्वादिकम् , तैर्भक्षितैः सेवा देवतातोषणार्थम् / अध्यात्मनि पञ्चामृतानि पञ्चस्कन्धाः। आदिशब्देन पञ्चेन्द्रियाणि पञ्चप्रदीपाः। तेषां निरपेक्षता सेवा शरीरद्रव्यतृष्णापरित्यागः। तया सेवया देवता वरदा भवन्ति, न गूथादिभक्षितेनेति। जलनिधिकुलिशैरिति कायभोगनिरपेक्षता, वाग्भोगनिरपेक्षता, चित्तभोगनिरपेक्षता, च्यवन'सुखनिरपेक्षता "सेवा, कायवाक्चित्तब्रह्मचर्यसंयम इत्यर्थः / अनया देवता वरदा भवन्ति, न भवभोगस्पृहयेति / 15 20 25 1. ख. ग. च. वाम / 2. ग. च. दक्षिण / 3. ग. स्वकनक / 4. ग. सहजवचाब्जैः। 5. क. पुटेन / 6. भो. 'नियमः' नास्ति / 7. क. तेजसः। 8. क. ख. छ. साधना / 9. ग. 'सुख' नास्ति / १०.ग. भो. सेवा इति /