________________ T354 206 विमलप्रभायां [ साधनाएवं सर्वान् दग्ध्वा सुचन्द्रादिति जन्मबोधिबीजाच्छिरसि स्रवति यो हंकारो बिन्दुरूपं शुक्रमागन्तुकं स वजी बोधिचित्तमित्यर्थः। शिरसः कण्ठे, कण्ठाद् हृदये, हृदयान्नाभी, नाभेर्गुह्यकमले // 110 // प्रज्ञाधर्मोदयस्थं पुनरपि सकलं स्फारितं बिन्दुना वै नानालङ्कारयुक्तादरशंगतमिव ज्ञानचक्रं स्वयम्भूः / कामं रूपं ह्यरूपं त्रिविधमपि भवं शोधयित्वा क्रमेण पश्चाज्ज्ञानाचिषावै त्रिभुवनसकलं ह्येकदाकर्षणीयम् // 111 // ___ तदेव कमलं प्रज्ञाधर्मोदय उच्यते। एवं नाभिहत्कण्ठललाटोष्णीषकमलानि प्रज्ञाधर्मोदय उच्यते / एवं द्रुतः सन् गुह्ये कायबिन्दुः, नाभौ वाग्बिन्दुः, हृदये चित्त- . बिन्दुः, कण्ठे ज्ञानबिन्दुः। एवं प्रज्ञाधर्मोदयस्थं बोधिचित्तं पुनरपोति यथागतं तथागतं स्फारितमित्युच्यते / यथा ललाटादानन्दादिभेदेनागतं विचित्रादिभेदेन वा पञ्चदश[284b]चन्द्रकलापरिपूर्णम्, तथा निःस्पन्दादिभेदेनोधै ललाटे गतं वैमल्यं स्फारितं भवति / तेन बिन्दुना वैमल्येन नानालङ्कारयुक्तमादर्शगतमिव प्रतिसेनासमं त्र्यध्वगतं ज्ञानचक्रं स्वयम्भूरिति बिन्दुयोगात् सूक्ष्मयोगोऽभूत् / एवं कामं रूपं ह्यरूपं त्रिविधमपि भवं शोधयित्वा क्रमेणेति कायवाश्चित्तबिन्दुत्पत्तिक्रमेण / पश्चाज्ज्ञानाचिषा वै इति। अच्युतसुखरश्मिभिः। त्रिभुवनसकलमिति / त्रैधातुकमेकदाकर्षणीयमिति योगपद्येन त्रैकाल्यज्ञानम् / देवतायोगे देवतामण्डलचक्राकारस्फरणम्, संसारिणां पुत्रदुहितृस्फरणं बोधिचित्तत इति / एवं षोडशवर्षावधेर्गर्भजानां कायवाक्चित्तज्ञाननिष्पत्तिः, देवतानां भावनाबलेन, बुद्धानां चतुर्विमोक्षबलेनेति संवृतिपरमार्थसत्यतः॥ 111 // इदानीमध्यात्मनि मन्त्रजापादिकमुच्यतेचन्द्रादित्यादिकाद्यैस्त्रिविधगतिगतः कायवज्रादिजापः प्रत्याहारादिषड्भिः सुकनककमले कायवाश्चित्तयोगः / आनन्दाद्यैस्तु वज्राब्जसमरसगतैर्भावनेयं त्रिवज्रा प्रज्ञाब्जे चित्तबिन्दो सहजसुखवशाद् भावनाऽनाहता स्यात् / / 112 // चन्द्रेत्यादिना। इह शरीरे चन्द्र इति वामनाडी, "आदित्य इति दक्षिणनाडी। आदीति अकारादिस्वरसमूहो वामे प्राणसंचारः / कादीति व्यञ्जनसमूहो दक्षिणे 1. भो. Su Ba ( द्रवः ) / 2. क. ख. 'कण्ठे ज्ञानबिन्दुः' नास्ति / 3. भो. rGyu mThun Pa (निष्यन्द ) / . 4. भो. 'देवता' नास्ति / 5. ग. 'आदित्य""नाडी' ..नास्ति। .