________________ 214 विमलप्रभायां [साधना 15 ततो मण्डलदेवतानां विसर्जनायोष्णीषे पञ्चशूकं वज्रं भावयेत् / तस्य वरटके महासुखचक्रं विसर्जयेत् / तस्य बाह्यशूकं द्विगुण्यमष्टशूकं मध्यशकेन सार्धं नवशकं वनं स्याद्धर्मचक्रे हृदये। तस्य वरटके धूमादिकान् विसर्जयेत् / द्विगुणितमपरं षोडशशकं मध्यशकेन सार्धं सप्तदशशूकं सहजे ललाटे। तस्य वरटके स्कन्धधातुदेवता विसर्जयेत् / तस्य चान्यद् द्विगुण्यमिति द्वात्रिंशच्छूकं मध्यशूकेन साधं त्रयस्त्रिशच्छूकं संभोगे. कण्ठे / तस्य वरटके द्वादशायतनचतुःक्रोधदेवता विसर्जयेत् / तस्याप्यन्यद द्विगुण्यमिति चतुःषष्टिशूकं मध्यशूकेन सार्धं पञ्चषष्टिशूकं वज्र निर्माणे नाभिचक्रे / तस्य वरटके चचिकादयो भीमादयश्चतुःषष्टिमण्डलवाहिन्यश्चतस्रः शून्यकुलिकाः। एवं द्वासप्तति विसर्जयेत्ता इति / [289a]तद्गर्भेऽप्येकशूकमिति / तेषां गर्भे प्रागुक्तमेकशूकं समसुखफलदं गुह्यपद्मोदरस्थम् / तत्रापि द्वात्रिंशच्छूक दलसंख्यम् / तस्य वरटके मारीच्यादयो यास्ता विसर्जयेत् / एवं द्वादशदेवाः सपरिवाराः कर्मचक्राणि वज्राणि कृत्वा तेषां वरटकेषु विसर्जयेत् तानिति / नागाश्च श्वानास्यादयः क्रियाचक्रेषु / एवं विसर्जन कृत्वा ततो वलिं दद्यात् त्रिसन्ध्यं प्रागुक्तविधिना / पञ्चामृतं पूर्वविधिना शोधयित्वा तेनात्मानं प्रीणयेत् / एवं साधनं कालचक्रस्योत्पत्तिक्रमेणोत्पन्नक्रमेणोक्तं भगवता मञ्जुश्रियेति / / 123 // इदानीं योगचर्योच्यतेयोगी प्राणातिपातं दिननिशि कुरुते प्राणनाशः स उक्तो यः शब्दो वक्त्रहीनः प्रभवति हृदयेऽसौ मृषावाद एव / सर्वज्ञज्ञानभूमर्ग्रहणमपि च यद् योगिनः स्तेयमुक्तं सौख्यं बिन्द्वप्रपाते भवति च परदारस्य सेवाऽविरागात् // 124 // योगीत्यादि / इह योगिनां योगचर्या द्विधा-एका बाह्या, द्वितीयाऽध्यात्मिकी। तत्र या बाह्या सा लौकिकफलहेतोः। या चाध्यात्मिकी सा लोकोत्तरफलहेतोर्योगिना कर्तव्येति / इह योगी यत् प्राणातिपातं दिननिशि कुरुते तत् स्वदेहे प्राणनाश उक्तः। सर्वज्ञपदलाभाय न' बाह्ये प्राणातिपातः / इह बाह्ये यः प्राणातिपात उक्तो दुर्दान्तदमनाय स तेषां प्राणो योगबलेनाकृष्टः पुनस्तस्मिन्नेव काये प्रवेशनीयो योगिनेति / एवं दुर्दान्तदमको भवति / न दुर्दान्तान्तको भवतीति सिद्धः। यः शब्दो वक्त्रहीन इति / इह सर्वज्ञस्य वचनं सर्वरुतं यत् सर्वसत्त्वानां हृदये भवति स्वस्वभाषान्तरेण, तदेवाप्रतिष्ठितं सर्वसत्त्वरुतत्वादप्रतिष्ठितत्वान्मृषावाद इत्युक्तः / बाह्ये पुनः सत्त्वार्थ प्रति “महामाया महारौद्रा भूतसंहारकारिणी ( म. त 1.5 ) इत्यादिवचनं सत्त्ववैनेयार्थम् / तथा 1. ग. "द्विगुण्यमष्टशूक' नास्ति / 2. क. 'मध्य ...." त्रिंशत्रूक' नास्ति / 3. भो. चतुः' नास्ति / 4. ग. 'कृत्वा' नास्ति / 5. ग. 'न' नास्ति / 6. च. योगीति / 7. ग. 'सर्वज्ञस्य' नास्ति /