________________ 203 पटले, 106-109 श्लो.] प्राणदेवतोत्पादमहोद्देशः इदानीं चतुष्कायकृत्यमुच्यतेनिर्माणे भोगकर्तृ प्रभवति हि मनः कायवागिन्द्रियैश्च संभोगेऽदृष्टचिन्तां व्रजति गुणवशाद् धर्मकाये च निद्राम् / शुद्धे सौख्यं प्रयात्यत्र दिननिशिसमये बिन्दुमोक्षत्रयान्ते तस्मात् तद्भावनीयं प्रतिदिनसमये योगिना चाक्षरार्थम् // 108 // निर्माण इत्यादि। इह संसारिणां निर्माणे जाग्रदवस्थायां भोगकर्तृ प्रभवति मनः कायवागिन्द्रियैः करणभूतैर्विषयेषु / संभोगे स्वप्नावस्थायामदृष्टविषयेष्वजडेषु 'चिन्तां व्रजति गुणवशादिति विषयवासनावशात् / धर्मकाये सुषुप्तावस्थायां निद्रां च याति निरिन्द्रियं मनो भवतीत्यर्थः। शुद्धे तुर्यावस्थायां सौख्यं प्रयाति / अत्र दिनसमये निशि समये वा। समय इति कालः, तस्मिन् काले मैथुने कृते एकस्मिन् समये बिन्दु- मोक्षत्रयान्ते सहजक्षणे महासुखं प्रयातोति / [ 283a ] संवृत्या तत्त्वं यस्मात् तस्मात् तद्भावनोयमहनिशिकाले योगिना चाक्षरार्थमित्यच्युतक्षणार्थं वक्ष्यमाणेन षडङ्गेनेति नियमः। एवं सावरणधर्मे निरुद्ध निरावरणधर्मो भवत्युत्पादव्ययरहित इति न्यायः // 108 // 10 इदानीं प्रत्यालीढपदादिविशुद्धिरुच्यतेवामे प्राणप्रचारः प्रभवति च तथाऽऽकुञ्चनं दक्षिणे यत् प्रत्यालीढं पदं तत्समपदमपरालीढमग्न्यकंचारात् / वैशाखं मण्डलं वै वरललितपदं पद्मवज्रासनं च व्योमादी च प्रचारः समविषमगतौ पञ्चधा प्राणवायोः // 109 / / वामेत्यादि। इह संसारिणां यदा वामनायां प्राणस्य प्रचारो भवति, तदा दक्षिणे 'संकोचो भवति / प्राणोऽपि मन्त्रदेवता / तेन वामप्रसारेण दक्षिणसंकोचनेन बामे प्राणसंचारो "यत्तद् भवति / तथाऽऽकुञ्चनं दक्षिणे यत् प्रत्यालीढं पदं तदुच्यते मन्त्रदेवतायाः। समपदमपरमालीढपदं यथासंख्यमग्निचारादिति मध्यमाचारात् / योगपद्येन नाडीद्वये समपदं भवेत् / अर्कचारादिति दक्षिण चाराद् वामसंकोचनादालीढं पदं भवति। एवं वैशाखपदं मण्डलं च ललितपदं च पद्मासनं च वज्रासनं च यत्तद् यथाक्रमेण वामनाड्यां दक्षिणनाड्यां वा, व्योमादौ चेत्याकाशमण्डले 20 1. ग. चित्तं / 2. च. प्रयाति / 3. क. यथा / 4. च. संकोचनं / 5. च. यद्भवति / 6. च. भवति / 7. च. प्रचारात् / 8. ग. च. कोचा। 9. ग. ख्यपदं तन्मण्डलं / १०.ख. 'वज्रासनं च' नास्ति /