________________ 204 विमलप्रभायां [साधना 5 प्राण'सञ्चारो वैशाखपदम् / वायुमण्डले प्रचारो मण्डलपदम् / अग्निमण्डले प्रचारो ललितपदम् / उदकमण्डले प्रचारः पद्मासनम् / पृथिवीमण्डले प्रचारो वज्रासनमिति / एवं समविषमगतौ पञ्चधा प्राणवायोः प्रचारो यस्तेन विशुद्धेन देवतानां पदासनविशुद्धिः प्रकम्पाभावतो भवतीति नियमः। एवं जातकस्य वानिष्पत्तिद्वितीया / / 109 // इति मूलतन्त्रानुसारिण्यां लघुकालचक्रतन्त्रराजटीकायां द्वादशसाहसिकायां विमलप्रभायां साधनापटले प्राणदेवतोत्पादमहोद्देशस्तृतीयः॥ 4. उत्पन्नक्रमसाधनमहोद्देशः प्रणिपत्याच्युतं सौख्यं षोडशार्धार्धबिन्दुधृक् / यत्तस्योपायः सम्यग् बिन्दुयोगः प्रकथ्यते // चण्डाली नाभिचक्रे नवहतभुजगे चर्चिकाद्याधिदेवे होकारज्ञानगर्भे तडिदनलनिभा ज्ञानतेजःप्रबुद्धा / नाभौ वैरोचनादीन् दहति नरपते लोचना चक्षुरादीन् सर्वान् दग्ध्वा सुचन्द्रात्स्रवति शिरसि यो बिन्दुरूपं स वज्री॥११०॥ .[ 283b] चण्डालोत्यादिना / इह सर्वोत्पत्तिक्रमे कायनिष्पत्तिर्मण्डलराजानी। वाङ्निष्पत्तिः कर्मराजाग्री, कर्मेन्द्रियक्रियाप्रवर्तनात / बोधिचित्तबिन्दनिष्पत्तिबिन्दयोगः / शुक्रच्यवनात् सुखोपलब्धिः सूक्ष्मयोगः। स च नराणां षोडशवर्षान्ते भवति / तेन तस्योपभोगाय विवाहपाणिग्रहणादिकं कार्यम् / शिष्याय प्रज्ञासमर्पणं करोत्याचार्यः / तया तस्य सुखस्य साधनं कर्ममुद्रयोक्तं बालजनानाम्, ज्ञानमुद्रया मध्यमानाम, महामुद्रयोत्तमयोगिनामिति / तेन मूलतन्त्र भगवान् आह षोडशाब्दां कुलीनां वा रूपयौवनमण्डिताम् / आदी सुशिक्षितां कृत्वा सिक्त्वा साधनमारभेत् / / कायवाक्चित्तरागांश्च ललाटादिषु विन्यसेत् / स्वाहा गुह्ये महोष्णीषे ततः पद्मं विशोधयेत् // आ:कारेणाष्टदलं पद्मं हूँकारकुलिशान्वितम् / एवं सकुलिशं कमलं प्रज्ञायाः स्पन्दहेतुतः॥ 1. ग. च. प्रचारो। 2. इतः परं ग-पुस्तके 311 पत्राभावात् “भवतीति "द्वादशराशिनाड्यात्मक' इति यावत् पाठो नास्ति / 3. च. योगाय / ४.क.ख. ग. ऊ. 'आह' नास्ति /