________________ 15 202 विमलप्रभायां [ साधना___ केशैः सिद्धाः समस्ता 'निरावरणलोमभिः सार्धत्रिकोटिभिः श्मशाने भूतवृन्दं विशुद्धमेवमन्ये ते सिद्धाः। अन्ये भूता इति शुद्धाः। तत्त्वेश्चतुर्विंशतिभिर्निरावरणेर्ववादीन्यस्त्राणि भर्तुः शुद्धानि चतुर्विंशतिविधप्रकृतेरभावादिति / प्रकृतिगुणवशादिति / प्रकृतिः पृथिव्यादिधातुसमूहस्तेषां गुणाः षड़ विषयास्तेषामावरणक्षयात् / अन्यर्गन्धादिधातुभिः षड्भिः षड् बाह्यमुद्रा विशुद्धा इति / वरिति कायवाक्चित्तज्ञानवर्जाग्रत्स्वप्नसुषुप्ततुर्यालक्षणैर्विशुद्धनिरावरणादध्यात्ममुद्राः शुद्धाः। अन्यास्ताः कायमुद्रादयश्चत स्रो विशुद्धा इति / पविधरहृदय इति / मण्डलनायकहृदये संस्थिता"श्चन्द्रमूनि। श्रीवनी सहजानन्दः परमाक्षरः। विश्वमाता सर्वाकारशून्यताज्ञानं व्यध्वदर्शनम्। च्यवनसुखकल्पनावरणक्षयादिति शुद्धम् / त्रिविधभवगताः। सर्वे सर्वतः सर्वदा स्कन्धादयो विशुद्धाः सर्वावरणक्षयादिति भगवतो नियमः / एवं भवस्य परिज्ञानं निर्वाणमिति कथ्यते / इहातीतानागतवर्तमाने त्र्यध्वनि त्रिभवस्य यथाभूतदर्शनं परिज्ञानं तदेव त्रिभवावरणक्षयेण हेतुफलनिरोधेन संबुद्धानां योगपंद्येन भवति सर्वज्ञता-सर्वाकारज्ञता-मार्गज्ञता-मार्गाकारज्ञताबलेन। न श्रावकप्रत्येकबुद्धानां 'बोधिसत्त्वानां च योगपद्येन व्यध्वनि यथाभूतं त्रिभवस्य परिज्ञानं भवति सोपधिनिर्वाणधातुत इति / "यथा बोधिसत्त्वानां लवमात्रावरणतः, एवं क्रोधेन्द्राणामपि सिद्धं . दशभूमीश्वरत्वम् // 106 // इदानीं शुद्धधर्मकायाद्युत्पत्तिरुच्यतेश्रीशुद्धाद्धर्मकायो भवति खलु सुसंभोगकायो हि धर्माद् भोगान्निर्माणकायो भवति जिनपतेः सर्वसत्त्वार्थकतुः / [282b] तुर्यावस्था सुषुप्ता खलु पुनरपरा कायभेदात्तु जाग्रा एवं कायप्रभेदेविहरति च मनः प्राणिनोऽङ्गे चतुर्धा // 107 / / श्रीशुद्धादित्यादि। इह संवृतिसत्ये प्रतीत्योत्पन्नधर्माः क्षणिका उत्पादव्ययलक्षणाः, भवस्यापरिज्ञानात् / अविद्यावासनातस्तुर्यादयोऽवस्थाश्चतस्रः संसारिणां भवन्ति / तेषु कायप्रभेदैर्मनश्चतुर्धा विहरति / प्राणिनोऽङ्ग चतुर्धा। इहाधानकाले गर्भावक्रमणे शुक्रच्यवनावस्था तुर्या, सा च संवृत्या महासुखमित्युक्तम् / तदेव श्रीकारादद्वयं ज्ञानं संवृत्या शुद्धकायः, सहजकाय इत्यर्थः। तस्माद् धर्मकायः सुषुप्तावस्थालक्षणः। तस्मात् संभोगकायः स्वप्नलक्षणः। तस्मानिर्माणकायो जाग्रल्लक्षणः। कायनिष्पत्तेः प्राणनिर्गमकालाबाह्ये पुनरुक्तश्चतुर्धा। एवं मण्डले कायभेदो भवति / जिनपतेः सर्वसत्त्वार्थकर्तुः संवृत्यावरणक्षयादिति / त्रैधातुके परचित्तज्ञाने मनो विहरति / 'पूर्वनिवासानुस्मृतौ च भवपरिज्ञानत इति // 107 // 25 T353 1. क. च. निवारण / 2. ग. भाव, च. भावत / 3. ग. बाह्यविशुद्धा मुद्रा। 4. ग. च. स्रो मुद्रा, ग. "विशुद्धा' नास्ति / 5. ग. च. श्चतुर्मू / 6. ग. भूतबोधि / 7. ग. च. भो. तथा / 8. च. विहरतीति / 9. ग. पूर्ववासा। '