________________ 201 पटले, 102-106 श्लो.] प्राणदेवतोत्पादमहोद्देशः पाण्डरा-मामकी-लोचनेति / धातुभिरिति / ज्ञानाकाशवायुतेज-उदकपृथ्वीधातुभिनिरुद्धैरन्ये धातवो विशुद्धा भवन्तीति। विषयविषयिभिरिति / रूपादिषड्विषयैश्चक्षुरादि[ 281b ]भिविषयिभिविशुद्धैरन्ये ते रूपादयोऽन्ये ते चक्षुरादयो विशुद्धा रूपवज्रादिभिः सार्धं क्षितिगर्भादयो बोधिसत्त्वाः 'समुद्राः शुद्धाः। पञ्चक्रोधा बलैरिति श्रद्धाबलं वीर्यबलं स्मृतिबलं समाधिबलं प्रज्ञाबलम् / अश्रद्धा-अवीर्य-अस्मृतिअसमाधि-अप्रज्ञानामावरणक्षयेण श्रद्धादीनि बलानि भवन्ति, तैर्बलैविशुद्धाः / उष्णोषविघ्नान्तक-'प्रज्ञान्तक-पद्मान्तक-यमान्तक-क्रोधराजानः शुद्धा इति / खलु पुनरपराः सुम्भराज-नीलदण्ड-टक्कि-अचल-महाबलाः। पञ्चकर्मेन्द्रियैर्भगवाक्पाणिपादपायुभिः कर्मेन्द्रियक्रियाभिः। रौद्राक्ष्यादिभिः सार्धं परिशुद्धा इति // 104 // चामुण्डाद्यष्टयामैः कमलदलगताः सूर्यलग्नघंटीभिदैत्याद्याः सूर्यमासैः कमलदलगता नाडिकाश्वाससंख्यैः / नागाश्चण्डाश्च गुह्ये द्विगुणनृपतिभिर्नाडिकाभिविशुद्धा एवं ,चेच्छादयस्ताः प्रकृतिगुणवशात् कायकृत्यविशुद्धाः // 105 // चामुण्डाया अष्टयामैः कमलदलगताः सूर्यलग्नैर्घटीभिः षष्टिभिर्भीमादयश्चतस्रः शून्यपत्रविशुद्धया निर्माणचक्रावरणक्षयेणान्यास्ताश्चचिकादयो भीमादयश्चेति शुद्धाः। 15 दैत्याद्या इति / नैऋत्यवाय्वग्निषण्मुखसमुद्रगणेन्द्रशकब्रह्मरुद्रयक्षविष्णुयमा इति द्वादश चैत्रवैशाखज्येष्ठाषाढश्रावणभाद्राश्विनकार्तिकमार्गशिरपौषमाघफाल्गुन नामावरणक्षयेण शुद्धाः। तेषां कमलदलगताः षष्ट्युत्तरत्रिशतं लास्यादियुक्तं नाडिकाश्वाससंख्यैदिनैः षष्ट्युत्तरत्रिशतदिनावरणक्षयेण शुद्धाः। अन्ये ते देवा अन्यास्ताः पत्रदेव्य इति शुद्धाः। नागाश्चण्डाश्च गुह्ये द्विगुणनृपतिभिर्नाडिकाभिविशुद्धाः प्रज्ञोपायभेदेन ____ 20 द्विगुणत्वम् / एवं चेच्छादय इति / इह-इच्छा षट्त्रिंशत्, प्रतीच्छा षट्त्रिंशत् पूर्वोक्ताः प्रकृतिगुणवशात् कायकृत्यविशुद्धाः। कायकृत्यावरणक्षयेण [ 282a ] इत्यन्यास्ता इच्छादयः शुद्धाः // 105 // 25 केशेः सिद्धाः समस्ताश्चितिभुवनगतं लोमभिर्भूतवृन्दं तत्त्वैरस्त्राणि भर्तुः प्रकृतिगुणवशाद् धातुभिर्बाह्यमुद्राः / वज्ररध्यात्ममुद्राः पविधरहृदये संस्थिताश्चन्द्रमूनि श्रीवज्री विश्वमाता त्रिविधभवगता चाक्षरज्ञानयोगात् // 10 // १.क. सभार्या, ग. सविद्या / 2. ग. 'प्रज्ञान्तकपद्मान्तक' नास्ति / 3. ग. च. भाद्रपदा / 4. ग. च. मासा / 5. भो. Ces Pa ( इति ) इत्यधिकम् / 26