________________ 10 T352 200 विमलप्रभायां [साधनाभिक्षुमुद्रणम् , एवं भिक्षुपूर्वगमः संघः। ये धर्माः पूर्व गमो धर्मः / बुद्धपूर्वगमो' बोधिसत्त्व'क्रोधदेवतागणः। एवं मण्डले नायकोऽचिन्त्यचित्तवज्रः, नायकी शून्यताज्ञानधर्मिणी विश्वमाता इति न्यायः // 102 // [ 281a ] इदानीं धूमादीनां विशुद्धिरुच्यतेधूमाद्या वायुशुद्धाः स्वहृदयकमले नाभिचक्रे स्थिताश्च रुद्रः क्लेशैः सभार्यो विभुचरणतले मारवृन्दैश्च मारः / शङ्खो गण्डी मणिश्च द्रुम इति च तथा कायवज्रादिभिश्च कुम्भाश्चाष्टामृताङ्गेर्जयविजयघटौ बोधिचित्तादिना च // 103 // धूमेत्यादि। इह हृदयकमले समानादिवायूनां आधारभूता अष्टनाङ्यस्ताभिः धूमादिदिव्याः "कृष्णदीप्तान्ताः शुद्धाः। अवधूतीशङ्खिनीभ्यां कलाबिन्दुरूपिण्यौ शुद्ध दशवायुनिरोधेनेति। रुद्रो वामपादतले 'चतु:क्लेशक्षयेण शुद्धः। सव्यपादतले मारो मारवृन्दक्षयेण शुद्धः / शङ्खः कायावरणक्षयेण शुद्धः। गण्डो वागावरणक्षयेण शुद्धा / मणिश्चित्तावरणक्षयेण शुद्धः / कल्पद्रुमो ज्ञानावरणक्षयेण शुद्ध इति / कायवज्रादि- ... भिश्च 'कम्भाश्चाष्टामताडैरिति। इह मज्जानिरोधेन कम्भद्वयं वामदक्षिणभेदेन विशुद्धम् / एवं सर्वत्र वामदक्षिणभेदेन वेदितव्यम् / तथा रक्तनिरोधेन कुम्भद्वयम् / एवं मूत्रास्रावेण कुम्भद्वयम् / 'तथा विष्ठास्रावेण कुम्भद्वयम् / एवं जयघटः शुक्रास्रावेण / विजयघटो रजआस्रावेण / इन्यष्टौ घटाः शुद्धाः कपालानि वा // 103 // इदानी बुद्धानां शुद्धिरुच्यते-- संस्कारोऽमोघसिद्धिविमलमणिकरो वेदना चामिताभः संज्ञा रूपं हि चक्री शशिबलरुधिरैमंत्रविड्भ्यां विशुद्धाः / षड् देव्यो धातुभिर्वै विषयविषयिभिर्बोधिसत्त्वाः समुद्राः पञ्च क्रोधा बलेर्वे खलु पुनरपराश्चेन्द्रियैः पञ्च चान्यैः // 104 // इह संवृतिधर्मे निरुद्ध सत्यन्ये ते संस्कारादयः। तेन विशुद्धसंस्कारोऽमोघसिद्धिः। संस्कारावरणक्षयेण विमलमणिकरो रत्नसंभवो वेदना। चकार: समच्चयार्थः। एवममिताभः संज्ञा रूपस्कन्धः। चक्रीति वैरोचनः। एते पूनरक्षोभ्यादयः। शशीति शुक्रम, 'बलेति मांसं रुधिरं मूत्रं विडित्येभिविशद्धनिरावरणैः पञ्च स्कन्धा विज्ञानादयो विशुद्धा भवन्तीति। एवं षड् देव्यो विश्वमाता-वज्रधात्वीश्वरी-तारा 15 1. क. ख. छ. 'मो' एवं' नास्ति / 2. ग. च. क्रोधादि / 3. क. ख ग. च. छ. अचित्त / 4. क ख. छ. मात्रा। 5. क. कृष्णदीप्तान्धाः / 6. क. ख. चन्द्रः / 7. ग. च. 'च' नास्ति / 8. ग. 'तथा""द्वयम्' नास्ति / 9. क. ख. ग. च. छ. पललं / 10. च. त्येते /