________________ पटले, 100-102 श्लो.] प्राणदेवतोत्पादमहोद्देशः कण्ठे संभोगचक्रं द्विगुणनृपतिभिर्बोधिसत्त्वादिभिः स्यानाभौ निर्माणचक्रं वसुफणिगुणिताभिश्च भीमादिभिश्च // 10 // कुम्भरित्यादि / इह कुम्भैरष्टभिर्धूमादिभिः 'सार्धमष्टारं हृच्चक्रं शुद्धं तदेव धर्मचक्रम्। विद्याभिर्लोचनादिभिश्चतसृभिर्बुद्धर्वैरोचनादिभिश्चतुभिरेभिरष्टभिः कायभावभेदेन षोडशैः शिरसि षोडशारं चक्रं शुद्धं तदेव सहजं सिद्धमिति, अनुक्तत्वात् / धर्मशङ्खचिन्तामणिधर्मगण्डीकल्पवृक्षश्चभिरुष्णीषचक्रं शुद्धम् / कण्ठे संभोगचक्र द्वात्रिंशदरं द्विगुणनृपतिभित्रिंशद्भिर्बोधिसत्त्वाद्यैरिति। द्वादशायतनैश्चतु:क्रोधैः षोडशभिः प्रज्ञोपायभेदेन द्वात्रिंशद्भिः शुद्धम्। नाभौ निर्माणचक्रं चतु:षष्टयरं वसुफणिगुणितैश्चतुःषष्टिभि[ 280b ]ीमादिभिः शुद्धमिति। तथा चामुण्डाद्यष्ट्रभिः, 'लास्याद्यष्टभिश्च गुह्यचक्रं शुद्धम् // 101 // / बाहोः पादस्य सन्धो नवतियुगहतैः कर्मचक्र सुरैश्च चुन्दानागैः क्रियाख्यं भवति नृपतिभिश्चागुलीपर्वसन्धौ / श्रीवज्री कालशुद्धया भवति नरपते वर्षमासादिभेदैश्चित्ताकारो न चार्कः प्रतिदिवसवशाद् विश्वमाता विशुद्धा / / 102 // बाहुपावसन्धिषु द्वादशसु कर्मचक्रं सुरैः षष्टयुत्तरत्रिशतैः शुद्धम् / नागै"श्चुन्या- भिरेभिः षोडशभिः काय भागभेदेनाङगुलीपर्व सन्धिषु क्रियाख्यं चक्रं शुद्धमिति चक्रशुद्धिनियमः। इदानीं नायकादीनामपरविशुद्धिरुच्यते-धीवज्रोत्यादि। इह कालो बाह्येऽध्यात्मनि द्वादशाङ्गात्मकं मकरादिराशिचक्रं हेतुफलात्मकम् / तत्र पञ्च हेतुधर्माः, सप्त फलहेतुधर्माः क्लेश'धर्मात्मकाः। फलधर्मा दुःखात्मका लोकधातुपटलोक्ताः / तेषां हेतुफलधर्माणां शुद्धया कालशुद्धया हेतुफल 'निरोधेन शुद्धया वज्री मण्डलेशः कालचक्रविशुद्धः / वर्षमासाविभेदैरिति वक्ष्यमाणे वक्तव्यम् / चित्ताकारो विशुद्धचित्तो न चार्कः संसारचित्तलक्षणः प्राणारूढो विज्ञानस्कन्ध इति / प्रतिदिवसवशाद विश्वमाता१५ विशद्धेति / इह यथा वर्षे द्वादशलग्नानि मासभेदेन तथा प्रतिदिने उदयभेदेन द्वादशलग्नानि। एवं प्रज्ञाऽपि द्वादशाङ्गनिरोधेन शुद्धा। "अत्र यानत्रयस्य ये धर्मा मुद्रणं चतुरशीतिसहस्रधर्मस्कन्धानां देवतानां च बुद्धमुद्रणम् / चतुर्विधस्य संघस्य 15 20 25 1. ग. सोपध / 2. ग. ष्टाक्षरं / 3. ग. त्रिगुण / 4. क. 'लास्याद्यष्टभिश्च' नास्ति / 5. ख. श्चन्दा, ग. च. भो. श्चण्डा / 6. ग. च. भो. भाव / 7. क. ख. छ. 'सन्धिषु ""चक्र' नास्ति / 8. क. ख. छ. कायका / 9. क. ख. छ. काला 10. क. ख. छ. 'हेतु""सप्त फल' नास्ति / 11. च. भो. कर्मा / 12. क. ख. छ. 'निरोधेन"चक्रवि' नास्ति / 13. ग. च. मासभेदैः। 14. क. ख. छ. 'प्रतिदिवस" विशद्धति' नास्ति / 15. ग. भो. प्रज्ञा शुद्धेति, च. शुद्धा भवति / 16. क. ख. छ, अत्र या तत्र, ग. अतो यानत्रयं, च. अत्र यानत्रये / 17. क. ख. छ. 'स्य"स्कन्धानां नास्ति /