________________ 198 विमलप्रभायां [ साधना 15 इति वागधिष्ठानम्। चित्ताधिष्ठाने हृदये राहुमण्डलं नीलवर्ण विभाव्य बिन्दुपरिणतं तदुपरि हूंकारपरिणतं वज्रं पञ्चशूकं तत्परिणतं चित्तवज्रं सप्रज्ञं कृष्णं कृष्ण सितरक्तवदनं, दक्षिणे वज्रचक्रपद्मधरं, वामे घण्टा मणिखङ्गधरं निश्चार्याकाशधातुं तेन परिपूर्ण विभाव्य चित्तवज्रवेनेयानां सत्त्वानां धर्मदेशनां कृत्वा पुनरात्मनोऽग्रतः संस्थाप्याभिषेकमनुनाथयेत् / अभिषिञ्चन्तु मां सर्वे चित्तवनिण इति / ततश्चित्तवज्रकुलदेवीभिरभि"षिञ्च्यमानमात्मानं विभाव्याधिष्ठानं कारयेत्, चित्तवज्रं राहुमण्डले निवेश्य इदमुदीरयेत् चित्तवज्रधरः श्रीमान् त्रिवज्राभेद्यभावितः। अधिष्ठानपदं मेऽद्य करोतु चित्तवत्रिणः // दशदिक्संस्थिता बुद्धास्त्रिवज्राभेद्यभाविताः।। अधिष्ठानपदं मेऽद्य कुर्वन्तु चित्तवज्रिणः॥ इति / एवं चित्ताधिष्ठानं कृत्वा तत एकत्वेन ॐ सर्वतथागतकायवाक्चित्तस्वभावात्मकोऽहमित्यहङ्कारमुद्वहेद् योगीति नियमः। एवं प्रज्ञाया नाभौ होकारेण, गुह्ये स्वाकारेण, उष्णीषस्थाने हाकारेण, त्रिकुल उपायः शुक्रधर्मतः। षट् कुला प्रज्ञारजःशुक्रधर्मत इति। अपरमनुनाथन मभिषेक[280a]पटलोक्तविधिना कर्तव्यम् / तत्रैव यदनुक्तं तदनेन विधिना सर्व कर्तव्यमिति नियमः। इदानीं शून्याद्यहङ्कारस्थानान्युच्यन्ते-शून्य इत्यादिना। इह यथा सर्वसत्त्वानां मरणान्ते मारणान्तिकस्कन्धाः शून्या भवन्ति, तथा योगिनां मनुष्यस्कन्धाहङ्कारस्थानान्युच्यन्ते, परित्यागार्थं देवतास्कन्धनिष्पादनार्थम् / ॐ शून्यताज्ञानवजस्वभावात्मकोऽहमिति नियमः। इदानीं यथोपपत्त्यं शिकपञ्चस्कन्धैर्गर्भबालस्य कायनिष्पत्तिः, तथा मण्डल आदर्शादिपञ्चाकारैर्देवतायाः कायनिष्पत्तिः। तत्राहङ्कारः ॐ अविशुद्धधर्मधातुस्वभावात्मकोऽहमिति नियमः / एवं शून्ये वै धर्मधातुकाले त्रिकुलिश. समये / एवं वक्ष्यमाणे ज्ञानपूजानुरागे। इह यथा बालस्य कर्णवेधादिकम्, विवाहे पाणिग्रहणम्, षोडशवर्षावधेर्ज्ञानपूजानुरागणम्, एवं तत्र काले तत्स्वभावात्मकोऽहमिति वक्तव्यमत्रोत्पत्तिक्रमे [ इति ] भगवतो नियमः / / 100 // इदानीं देवताविशुद्धया सर्वचक्रनाडिका उच्यन्तेकुम्भधूमादिभिश्च प्रभवति हृदये चाष्टभिर्धर्मचक्र विद्याभिश्चैव बुद्धैः शिरसि च सहजं षोडशारं प्रसिद्धम् / 1. ग. च. छ. भो रक्तसित / 2. भो. खङ्गमणि / 3. ग. च. 'सत्त्वानां' नास्ति / 4. च 'इति' नास्ति / 5. च. षिच्य / 6. च. तत्र / 7. ग. नाभिषेक। 8. ख. नामनुस्कन्धा / 9. ग. च. छ. भो. 'स्थानान्युच्यन्ते' नास्ति / 10. च. भो. इह / 11. ग. च. छ. त्यङ्गिक / 12. ग. क्षरै / 13. भो. सुविशुद्ध / 14. ग. कुलसमये /