________________ पटले, 92-97 श्लो.] प्राणदेवतोत्पादमहोद्देशः 195 इति / सतरुसकशा इति। तरुः कल्पवृक्ष 'इति / एवं चिन्तामणिः, धर्मगण्डी, धर्मशङ्खः। कलशा रजःशुक्रयोः कायवाक्चित्तज्ञानबिन्दुभेदेन विण्मूत्ररक्तमज्जाघटा अष्टाविति। शुद्धकायो जिनस्य मण्डलाधिपतेः। ततो बाह्यपुटे चित्तमण्डलद्वारेषु क्रोधेन्द्रा विघ्नान्तकः, प्रज्ञान्तकः, पद्मान्तकः, यमान्तकः, उष्णीषः। बोषिसत्त्वा वज्रपाणिः, खगर्भः, क्षितिगर्भः, लोकेश्वरः, विष्कम्भी, समन्तभद्रः / खलु रसकुलिशा 5 इति / शब्दवचा, स्पर्शवज्रा, रूपवजा, रसवज्रा, गन्धवज्रा, धर्मधातुवज्रा। एता धर्मकायः स एव // 95 // योगिन्यो भोगकायः प्रवररथगताः सूर्यदेवाः प्रसिद्धा अष्टौ नागाः प्रचण्डाः परिजनसहिता बुद्धनिर्माणकायः / एवं भूयो द्विभेदो भवति जिनतनुर्बाह्यतोऽभ्यन्तरे च गर्भोत्पत्तिर्यथैव प्रभवति नियता मण्डले तद्वदेव // 96 // ततो वाङ्मण्डले योगिन्यो भोगकायश्चचिकाद्या दलदेवीभिः सार्धमिति / ततः कायमण्डले प्रवररथगता मारीच्यादयः सूर्यदेवाः प्रसिद्धाः। नैऋत्यादयो [278a ] द्वादश / अष्टौ नागाः कर्कोटकादयः / प्रचण्डाः श्वानास्यादयः / एते देवादयः परिजनसहिताः। पद्मदले देवताभिः सह बुद्धनिर्माणकायः। एवं भूयो द्विभेदो भवति 15 जिनतनुर्बाह्यतोऽभ्यन्तरे च / गर्भोत्पत्तिर्यथैव प्रभवति नियता मण्डले तद्वदेवेति // 96 // शास्ता दिव्यादिकुम्भाः सहजजिनतनुमण्डले गर्भमध्ये बुद्धाद्या धर्मकायः खलु रसकुलिशाद्याश्च संभोगकायः / क्रोधा निर्माणकायो भवति कुलवशान्मण्डले गर्भसंस्थाश्चामुण्डाद्यष्टदेव्यः परिजनसहिताः शुद्धकायो हि बाह्ये // 97 // 20 इह गर्भे यथा बालस्य विज्ञानं ज्ञानं शुक्ररजोगर्भे शुद्धकायः, तथा शास्ता भगवान् / दिव्या धूमादयः, आदिशब्देन धर्मशङ्खादयोऽष्टकुम्भा एते मण्डलगर्ने सहजकाय इति / ततो यथा बालस्य स्कन्धधातूद्भवो धर्मकायस्तथा मण्डले बुद्धाद्या इति / ततो यथा बालस्यायतनोद्भवः संभोगकायस्तथा मण्डलेऽपि / खलु शब्दवज्रादय इति। ततो यथा बालस्य हस्तपादादिकेशादिसंभवः प्रसवनसमयश्च / निर्माणकायः, तथा यमान्तकादयश्चतुःक्रोधा इति कुलवशान्मण्डले गर्भ संस्था इति चित्तमण्डले चित्तकुलवशादिति गर्भे चतुर्धा नियमः / इदानीं बाह्ये चतुर्धा उच्यते-चामुण्डेत्यादि। इह यथोत्पन्नस्य बालस्य 'नाभिचक्रात् प्राणनिर्गमः सहजकायस्तथा बाह्ये वाङ्मण्डले चामुण्डाद्यष्टदेव्यः परिजनसहिताश्चतुःषष्टि"योगिनीभिः सहिता इति // 97 // 1. च. 'इति' नास्ति / 2. ग. अष्टाविंशतीति / ३.ग. च. मारे / ४.क. ख. ग. च. धुपा। 5. ग. संस्थाने / 6. भो. ITe Ba Nas (नाभितः)। 7. भो. Lha Mo (देवीभिः ) / 25 o