________________ 196 विमलप्रभायां [साधनादेवाद्या धर्मकायः सकलफणिकुलं चात्र संभोगकायश्चण्डा निर्माणकायो भवति नरपते सर्वसत्त्वार्थहेतोः / युग्मं स्यात् कायवज्रं सहजजिनतनुबिम्बनिष्पत्तिहेतोग्विजं धर्मकायो भवति च युगलं धर्मतादेशनार्थम् // 98 // [278b] इह यथा बालस्य हस्तपादादिसंकुचनमस्फुटवचनं धर्मकायस्तथा देवा द्वादश / आविशब्देन रथस्थाः षड् देव्य इति / इह यथा बालस्य दन्तोत्थाने स्फुटवचने सति 'संभोगकायस्तथा मण्डले सकलफणिकुलमिति / इह यथा बालस्य दन्तपातात् पुनरुत्थानादामरणावधौ निर्माणकायस्तथा मण्डले चण्डा श्वानास्यादयः परिजन सहिताः सार्धत्रिकोटिभूतैः सहिता निर्माणकायो भवति, नरपते सर्वसत्त्वार्थहेतोरिति बाह्ये चतुःकायविशुद्धिनियमः। इदानीं चतुःकायचतुर्वज्राणां परस्परं योग उच्यतेयुग्ममित्यादि / इह बालस्य बिम्बनिष्पत्तिहेतोः सहजकायश्चतुर्भूतात्मकं कायवज्र युग्मं स्याद् यथा, तथा मण्डलेऽपि / / 98 // चित्तं संभोगकायो युगलमपि भवेत् सर्वसत्त्वार्थकर्ता ज्ञानं निर्माणकायो भवति हि युगलं प्राणिनां मोक्षदं वै / प्रज्ञोपायाङ्गभावः समविषमकूलोगिना वेदितव्यं चन्द्रादित्यादिका_स्त्रिविधभवगतैर्ज्ञानविज्ञानभेदैः // 99 // एवं वाग्वजं धर्मकायो बालस्य युगलमपि जल्पनार्थं यथा तथा धर्मदेशनार्थ मण्डलेऽपि / इह बालस्य बोधिचित्तं संभोगकायः सर्वसत्त्वार्थ कर्ता युगलम्, “तथा मण्डलेऽपि। इह यथा बालस्य च्यवनकाले ज्ञानमिति सखं निर्माणकाय इति परिपूर्णधातुत्वं षोडशवर्षावधेर्भवति हि युगलं प्राणिनां मोक्षदं वै / मोक्षोऽत्र बोधिचित्तबिन्दूनां च्युतिक्षणः। तद् ददातोति मोक्षदं युगलं ज्ञानं निर्माणकायलक्षणं प्राणिनाम् / तथा 'तद्वैध\ण "मण्डले मोक्षदं द्वादशाङ्गहेतुफल निरोधत इति बुद्धनियमः। पुनरेषां चतुःकायचतुर्वजाणां प्रज्ञोपायाङ्गभावैः समविषमकुलैरिति / समकुलै रजउद्भवधातुकुले:, विषमकुलैः शुक्रोद्भतधातुकुलैः। चन्द्रादित्यादिकाद्यैस्त्रिविधभवगतैनिभेदैरानन्दायविज्ञानभेदैदिशायतनभेदैर्यो[279a]गिना वेदितव्यं समस्तं यथा बालस्याध्यात्मपटले तथा देवतासाधने उत्पत्तिकम इति / एवं देवताबिम्बनिष्पत्तिः // 99 // 1. क. ख. ग. छ. भोग / 2. ख. ग. बाह्य / 3. च. इह च / 4. ग. 'कर्ता' नास्ति / 5. क. ख. छ. 'तथा' नास्ति 6. च. भो 'तद' नास्ति / 7. भो. 'भण्डले' नास्ति / 8. ग. च. निरोध /