________________ 194 विमलप्रभायां [साधनाअक्षोभ्यो दैत्यशत्रुर्भवति जिनपतिः शङ्करश्च प्रसिद्धो .. विष्कम्भी यः स शक्रो भवति गणपतिर्लोकनाथस्तथैव / भूगर्भः षण्मुखः स्याद् भवति दनुपतिः श्रीखगर्भः प्रसिद्धः कालः श्रीवज्रपाणिर्भवति दनुपतिविश्वभद्रश्च षष्ठः // 92 // षड् विद्याः षट् न वज्राः प्रकृतिगुणवशात् स्वस्वमुद्राश्च तेषां मुद्रा विद्यादयोऽर्काः सुरवरपतयः श्वेतकृष्णाश्च पूर्णाः / तेषां याः पद्मपत्रे वकरतिथयो माघमासादयस्ताः षण्मासे पूर्वषट्कं भवति कुलवशाच्चापरं देवतीनाम् // 93 // ये नागाष्टौ घटास्ते विभुकमलदले शक्तयस्ताः प्रचण्डाः श्रीधूमा काकवक्त्रा भवति कुलवशाद् गृध्रवक्त्रा मरीचिः / खद्योतोलूकवक्त्रा खगपतिवदना श्रीप्रदीपा प्रसिद्धा श्वानास्या कृष्णदीप्ता सुविकृतवदना शूकरास्यातिदीप्ता / / 94 // व्याघ्रास्या श्वेतदीप्ता भवति कुलवशाज्जम्बुको पीतदीप्ता एवं लास्यादिसर्वाः प्रकटदशविधा विश्वमातावशेषाः। इदानीं जन्यजनकादिसम्बन्धः "श्रीवजी विश्वभद्रः" (4.86) इत्यादिसार्धनववृत्तानि “विश्वमातावशेषाः' (4.95) इति पर्यन्तं कुलकुलीनयोः सम्बन्धः // 86-943 // इदानीं 'चतुःकायपरिशुद्धिरुच्यतेदिव्या बुद्धाश्च विद्याः सतरुसकलशाः शुद्धकायो जिनस्य क्रोधेन्द्रा बोधिसत्त्वाः खलु रसकुलिशा धर्मकायः स एव / / 95 // [277b] दिव्या इत्यादि / इह यथा जरायुजस्य बालस्याध्यात्मपटले गर्भे बाह्ये चतुर्विधावस्थाभेदेन चतुर्विधः काय उक्तः, तथा देवताभावनायां विशोधनीयो योगिनेति / तत्र दिव्या धूमा मरीचिः खद्योता प्रदीपा पीतदीप्ता श्वेतदीप्ता कृष्णदीप्ता। शशिकला बिन्दुरूपिणीति महासुखकमलदले" सुखचक्रे / द्वितीयपुटे बुद्धाश्च विद्या इति / अत्र 'T 350 25 बुद्धा अमोघसिद्धि-रत्नसंभव-अमिताभ-वैरोचनाः। विद्यास्तारा-पाण्डरा-मामको-लोचना 1. च. विशुद्धिरु, भो. rNam Pa Dag Pas Dag Pa ( विशुद्धः शुद्धिरु ) / 2. च. अत्र / 3. भो. Lha Mo Ni ( देव्यः ) / 4. भो. 'शशि' नास्ति / 5. च. भो. दलेषु महा।