________________ 10 पटले, 84-91 श्लो.] प्राणदेवतोत्पादमहोद्देशः 193 इठ ट, वायव्ये न् ध् द् थ् त, ईशाने म् भ् ब् फ् प इति / एवं सर्वत्र प्रज्ञोपायागभावैर्भवति कुलवशात् संमुखो योऽत्र मध्ये नायकोपनायकभेदेनावगन्तव्यो योगिनेति तन्त्रनियमः।' 85 // श्रीवज्री विश्वभद्रो भवति कुलवशाद् वज्रधृग् वज्रपाणि_गर्भोऽमोघसिद्धिविमलमणिकरो भूमिगर्भश्च सम्यक् / विष्कम्भी वज्रपाणिभवति कुलवशाल्लोकनाथोऽमिताभः श्रीमाता धर्मधातुस्त्वपि वरकुलिशा वज्रधात्वीश्वरी च // 86 // श्रीतारा स्पर्शवज्रा खलु रसकुलिशा पाण्डरा जातिभेदाद् रूपाख्या मामकी वे भवति कुलवशाल्लोचना गन्धवज्रा। क्रोधेन्द्रो वज्रवेगो भवति जिनपतिविश्वभद्रः स एव उष्णीषोऽक्षोभ्य एवात्र पुनरतिबलोऽमोघसिद्धिः प्रसिद्धः / / 87 // जम्भो वै रत्नपाणिर्भवति कुल वशान्मानकश्चामिताभः स्तम्भो वैरोचनश्च प्रभवति बलवान् वज्रपाणिश्च सुम्भः / वैगर्भो नीलदण्ड: प्रकृतिगुणवशाद् भूमिगर्भश्च टक्किविष्कम्भी चातिवीर्यो भवति कुलवशाल्लोकनाथोऽचलश्च // 88 // माता क्रोधेन्द्रमुद्रा भवति कुलवशाद् धर्मधातुस्तथैव शून्याख्या चातिनीला मरुदनलजलक्ष्मादयोऽनन्तवीर्या / जम्भी मानी क्रमेण प्रकटितनियता स्तम्भकी च प्रसिद्धा रौद्राक्षी शब्दवज्रा भवति कुलवशाच्छृङ्खला स्पर्शवज्रा // 89 / / ____[277a] मारीची गन्धवज्रा प्रभवति भृकुटी चैव चुन्दा प्रसिद्धा ज्ञातव्या जातिभेदात् खलु रसकुलिशा रूपवज्रा नरेन्द्र / स्तम्भः कालान्तकोऽत्रैव पुनरतिबलो विघ्नशत्रु: प्रसिद्धो जम्भः प्रज्ञान्तको वै प्रभवति च तथा मानक: पद्मशत्रुः // 10 // चामुण्डा शूकरीशा मरुदनल जलक्ष्मास्तथैन्द्री चतुर्थी गन्धो रूपं रसः स्पर्श इति चलहरे दैत्यवह्नौ स्थिताश्च / ब्रह्मा वैरोचनो वें भवति कुलवशात् सागरश्चामिताभो वह्निः श्रीरत्नपाणिर्भवति हि पवनोऽमोघसिद्धिस्तथैव // 91 / / 25 3 20