________________ पटले, 69-73 श्लो.] प्राणदेवतोत्पादमहोद्देशः 187 एवं 'लकारे वस्त्रं भवति / पोयूषपात्रमूकारे, आदर्शमृकारे, गन्ध ईकारे, वीणा आकारे, धर्मोदयो विसर्ग आकार इति पृथिव्यादिगुणभेदेन चिह्नानि। एवं खेटम् अलकारे, कुन्तमोकारे, बाणोऽारे, परशुः एकारे, डमरुकोऽकारे / इति पञ्च चिह्नानि गुणभेदेन / तथा दण्ड आल्कारे, पाश औकारे, अकुश आर्कारे, मुद्गर ऐकारे, त्रिशूलमाकारे इति पञ्चचिह्नानि स्वरवृद्धया // 71 // कोदण्डश्चोत्पलं वै पुनरपि च तथा वक्त्रखट्वाङ्गघण्टा एवं वै शृङ्खलाद्यं जलचरचषक द्वीपिचर्मेभचर्म / शेषाण्यत्रोपचिह्नान्यवनिजलहताशानिलाकाशजानि ज्ञातव्यान्येव तानि प्रकृतिगुणवशाद् देवतादेवतीनाम् // 72 // "कोदण्डो लकारेण, उत्पलं वकारेण, "वक्त्रं रकारेण, खट्वाङ्ग यकारेण, घण्टा हकारेण, एवं वै शृङ्खला लाकारेण, शङ्खो वाकारेण, कपालं राकारेण, द्वीपिचर्म याकारेण, दन्तिचर्म हाकारेणेति, दीर्धेर्यणादेशैरिति द्वात्रिंशच्चिह्नानां स्वरनियमः। शेषाण्यत्रोपचिह्नान्यवनिजलहुताशानिलाकाशजानि ज्ञातव्यान्येव' तानि प्रकृतिगुणवशाद देवतादेवतोनामिति / सर्वेषां चचिकादीनां वाय्वादिभेदेन चिह्नानि वेदितव्यानि // 72 // 10 लाद्यास्त्रिशत् स्वरा ये क्षितिजलहुतभुङ्मारुताकाशजाताश्चिह्नानां ते स्वमन्त्राः क्रमपरिरचिता ह्रस्वदीर्घप्रभेदैः / चक्रादीनां समस्ताः खलु कमलगताश्चन्द्रसूर्यासनस्थाः षष्ठं यत्रैव चिह्नं भवति गुणवशात् तत्र चानाहतं स्यात् // 73 // [273b] अत्रोक्ता लाद्यास्त्रिशत् स्वराये क्षितिजलहुतभुङमारुताकाशजाताः, चिह्नानां ते स्वमन्त्राः क्रमपरिरचिता ह्रस्वदीर्घप्रभेदैः। चक्रादीनां समस्ताः खलु कमलगताश्चन्द्रसूर्यासनस्थाः। षष्ठं यत्रैव चिह्न भवति गुणवशात् तत्र चानाहतं स्यात् / एवं बीजेन चिह्नोत्पादः, 'चिह्नन देवतोत्पादः १°सर्वत्रावगन्तव्यो योगिनेति तन्त्रनियमः।। 73 // 20 1. क. 'ल' नास्ति, छ. ऋ / 2. ग. च. सर्गे / 3. भो. अः / 4. भो. De bSin Du ( तथा) इत्यधिकः पाठः। 5. भो. mGo Boho ( शिरं ) / 6. क. ख. छ. व्यानि प्रकृति / 7. भो. Le La Sogs Pa (ल-आदयः)। 8. च. दीर्घह्रस्व / ९.क. ख. छ. 'चिह्नन देवतोत्पादः' नास्ति / 10. च. सर्दवाव /