________________ 188 विमलप्रभायां [साधना- . इदानीं वज्रसत्त्वादीनां जातिबीजाक्षराण्युच्यन्तेनादः श्रीवज्रसत्त्वो भवति नरपते चित्तवज्रस्त्वकारो ह्रस्वेकारश्च खड्गी भवति पुन ऋकारश्च वै रत्नपाणिः / ह्रस्वोकारोऽमिताभो भवति पुन लुकारोऽत्र वैरोचनश्च दीर्घ भावप्रभेदैः सुरगणसकलं षड्जिनानां क्रमेण // 74 / / नाद इत्यादिना। नादोऽनाहतः, श्रोवज्रसत्त्वो ज्ञानस्कन्धः / एवं सर्वत्र संज्ञासंज्ञिसम्बन्धः / एवं अ अक्षोभ्यः / इ अमोघसिद्धिः। ऋ रत्नसंभवः / उ अमिताभः / ल वैरोचनः / ल लोचना। ऊ मामकी / ऋ पाण्डरा / ई तारा / आ वज्रधात्वोश्वरी // 7 // श्रीमाताऽनाहताख्या भवति खलु तथाकारजाकाशधातुर् ई ऋ ऊ ल क्रमस्था मरुदनलजलक्ष्मासु सर्वा भवन्ति / अन्योऽन्यं कायभावी परमजिनपतिविश्वमाता सुखार्थ अक्षोभ्यः शून्यधातुस्त्वसिकरकमलौ लोचनाकायभावी // 75 / / श्रीमाता प्रज्ञापारमिता अनाहताख्या / एवं कायभावभेदेन ह्रस्वदीर्घाणां स्वराणां जातिः। एवमन्योन्यं कायभावो। परमजिनपतिऑनस्कन्धः। विश्वमाता ज्ञानधातुः / विज्ञानमाकाशधातुः / संस्कारः पृथ्वीधातुः / 'वेदना तोयधातुः // 7 // [274a] रत्नेशो मामकी च त्वपि कमलधरः पाण्डराकायभावी तद्वच्चक्री च तारा प्रकृतिगुणवशाज्झस्वदीर्घस्वरैश्च / अंकारो विश्वभद्रो भवति तनुवशाद् वज्रपाणिस्त्वकारो ह्रस्वकारः खगर्भोऽरपि भवति तथा भूमिगर्भश्च सम्यक् // 76 / / संज्ञा तेजोधातुः। रूपं वायुधातुरिति / एवं अंकारः समन्तभद्रः / अकारोवनपाणिः। ए खगर्भः। अर् क्षितिगर्भः / / 76 // ओकारो लोकनाथोऽलपि भवति तथा चात्र विष्कम्भिकाय आकारो धर्मधातुर्भवति खलु तथाःकारजा शब्दवज्रा / ऐकारः स्पर्शवज्रा खलु रसकुलिशार्कारजा कायभेदादोकारो रूपवज्रा भवति नृप तथाल्कारजा गन्धवज्रा // 77 // 15 1. च 'वेदना तोयधातुः' नास्ति / 2. ग. ऐ।