________________ विमलप्रभायां [साधनावज्रस्येत्यादिना / इह मण्डले परमादिबुद्धे वज्रस्यान्योन्यवज्रो भवति हि मुकुटे। तत्कस्य हेतोः ? ज्ञान विज्ञानपरस्परसंयोगादिति। अतो ज्ञानेन विज्ञानं विज्ञानेन ज्ञानम् / उभयोश्चित्तवज्रश्चीवरोष्णोषधारी शिरसि वज्रपर्यङ्गस्थः भूस्पर्शमुद्रया। तथागतोयाश्वासतः पञ्चकुलैर्मुद्रणम्, स्वाभाविककुलस्य प्रतिषेधः, बुद्धानां जनकत्वादिति / अथ ज्ञानविज्ञान धर्मेण पञ्चबुद्धात्ममुकुटः कदाचित् क[272b]र्तव्य इति तथागतनियमः। रूपस्याक्षोभ्य ऊर्ध्वम्, “चित्तं कायाकारेण" ( गु० त०, पृ० 11) इति वचनात् / स्फुटकमलधरस्यैव वैरोचनः स्यात्, “कायं वाक्प्रव्याहारेण" ( गु. त०, पृ० 11 ) इति वचनात् // 69 // रत्नेशस्याब्जधारी प्रवरमणिकरोऽमोघसिद्धेश्च मौलो षण्णां मौलिर्जटाख्या भवति गुणवशाच्छेषचक्रस्य चान्यत्. / भूमौ चक्रप्रसूतिर्भवति हि कमलस्योदकेऽग्नौ मणेश्च वायो खङ्गस्य शून्ये भवति हि कुलिशस्याक्षरे कतिकायाः // 70 // -- रत्नेशस्याब्जधारी, रजोधर्मित्वात् / प्रवरमणिकरोऽमोघसिद्धेश्च मौली, रक्ततो मांससंभवादिति / षण्णां मौलिर्जटाख्या भवति गुणवशादिति / गुणास्तीर्थिकानामव ताराय / ईश्वरवक्त्रविशुद्धया षड्वक्त्राणि, पञ्चवक्त्राणि वा पञ्चब्रह्मलक्षणानि जटा मुकुटधराणि। “अत्र सद्यो वैरोचनः, वामदेवोऽमिताभः, अघोरो रत्नसंभवः, तत्पुरुषोऽमोघसिद्धिः, ईशानोऽक्षोभ्यः, कालाग्निर्वनसत्त्व इति / पृथिव्यप्तेजोवाय्वाकाशज्ञानस्वभावाः प्राकृतस्कन्धाः शद्धस्कन्धेरूष्णीषचोवरधारिभिर्मद्रिता इति। एवं षण्णां मौलिर्जटाख्या। शेषचक्रस्य देवता देवतोनां मौलिन नारत्नमयी स्वस्वकुलमुद्रिता यो येन जातस्तेन तस्य मुद्रणं वक्ष्यमाणे। इदानीं चक्रादीनां चिह्नानां प्रसूतिरुच्यतेभूमावित्यादि / इह भूमिबोजेन'लकारेणं चक्रस्य प्रसूतिः। कमलस्योदक उकारे / अग्नौ मणेः ऋकारे / वायो खड्गस्य इकारे / शून्ये कुलिशस्य अकारे / अंकारे 'ज्ञाने कतिकाया भवतीति क्रियासम्बन्धः / / 70 // वस्त्रं पीयूषपात्रं प्रभवति हि तथादर्शमाला च वीणा षष्ठो धर्मोदयो वै क्षिति जलहुतभुङ्मारुताकाशशान्तात् / खेटं कु[273a]न्तं च बाणं परशुडमरुको पञ्च चिह्नानि तद्वद् दण्ड: पाशोऽङकुशो वै भवति खलु तथा मुद्गरं च त्रिशूलम् // 71 // 15 00 1. क. ख.७. 'विज्ञान' नास्ति / 2. क. ख. छ. भो. ज्ञानं / 3. च. धर्मणः / 4. क. ख. छ. स्वमौली। 5. ख. ग. च. छ. तारणाय / 6. ग. 'पञ्च' नास्ति / 7. ग. मकुट / 8. क. ख. ग. च. अवसव्यो / 9 क. ख. छ. ली जटा। 10. च, देवी। 11. छ. ऋ / 12. छ. दरे / 13. क. ख, भो. ज्ञानकतिकायां /