________________ पटले, 60-69 श्लो.] प्राणदेवतोत्पादमहोद्देशः वायव्ये सर्पदष्टे खगपतिवदना चेश्वरे बालमृत्यो चक्रस्थोलूकवक्त्रा महिवलयगतौ चन्द्रसूर्यौ च भाव्यौ // 65 // 10 प्रत्यालीढं हि मातुर्भवति समपदं यत्र देवीगणस्य प्रत्यालीढं विशाखं दशवसुगणयोर्मण्डलं चासुरीणाम् / प्रत्यालीढे स्थितानां खलु भवति समापत्तिरालीढपादो। वैशाखाख्यं विशाखे भवति च नियतं मण्डलं मण्डले च // 66 // [2723] शेषा वज्रासनस्थाः प्रकटितनियता देवता मण्डले च देव्यः पद्मासनस्थाः स्वकुलदिशिगताः स्वस्वपमेन्दुमूनि / देवा वज्रासनस्थाः फणिकुलसहिताः स्वस्वदिग्वाहनस्थाः पत्रे देव्यः सुराणां खलु ललितपदा भूतजानां तथैव // 67 // सव्य राकुञ्चितैश्च क्षितितलनिहितैः सारितैमिपादैः प्रत्यालीढं पदं तद् भवति नरपते सार्धहस्तद्वयेन / आलीढं वामयोगाद् भवति समपदं पादयुग्मे समे च वैशाखंमण्डलं यद् भवति गुणवशाज्जानुयुग्मप्रसारात् // 68 // किञ्चिज्जान्वर्धवक्त्रे भवति हि ललितं शेषमेवं प्रसिद्ध ज्ञातव्यं योगिना वै पुनरपि भरते वज्रनृत्यस्य हेतोः / * एवं वारद्वाराणि पञ्च, पञ्चस्थानोच्चारणवशात् / एवमध ऊवं शून्यद्वारत्रयम् / शुक्रवारं कायकण्ठस्थानलक्षणं वर्जयित्वा द्वादशद्वाराणि त्रिमण्डलेषु / एवं सूर्यलग्नभेदेन द्वादशद्वाराणि, चन्द्रकलाभेदेन पञ्चदश, सर्वसत्त्वानां कायवाश्चित्तधर्मेणेति नियमः। अत्र वाङ्मण्डलादिसमरसत्वं सुबोधं प्रत्यालीढादिपदादिकं च / “वागजाते मण्डले वै" ( 4.60 ) इत्यारभ्य "वज्रनृत्यस्य हेतोः” (4.69 ) इतिपर्यन्तं सार्धनववृत्तानि सुबोधानीति // 60-686 // इदानी कुलमुद्रणं देवतानामुच्यतेवज्रस्यान्योन्यवज्रो भवति हि मुकुटे पञ्चबुद्धाः कदाचिद् रूपस्याक्षोभ्य ऊर्ध्व स्फुटकमलधरस्यैव वैरोचनः स्यात् // 69 / / 15 20 T348 24