________________ विमलप्रभायां [ साधना.. वाग्जाते मण्डले वै भवति वसुदिशास्त्रासनं भूतजानां चामुण्डेन्द्रश्च पूर्वे भवति शिखिनि वै वैष्णवी वेदवक्त्रा / यामे रुद्रो वराही भवति दनुपती षण्मुखी विघ्ननाथः 'बाह्येन्द्रद्वारसव्ये भवति दनुपती पश्चिमे वायवीन्द्रो // 60 // [271b] 'वायो ब्रह्मा च विद्युद् भवति हि धनदे सागरः शूकरी च कौमारीशे गणेन्द्रः खलु धनदयमद्वारयोर्वामभागे। रुद्रः कालश्च विष्णुर्धनद इति सुरे चापरे द्वारवामे तेषां मुद्रा प्रसिद्धा भवति गिरिसुता यामिनी श्रीर्धनेशा // 61 // . यक्षे रौद्री यमः स्याद् भवति पशुपती षण्मुखश्चैव लक्ष्मीर्बाह्येन्द्रद्वारसव्ये भवति दनुपती राक्षसी तस्य मुद्रा / वह्नी वायुः प्रचण्डा हरिरपि वरुणा दक्षिणद्वारसव्ये लक्ष्मीः श्रीषण्मुखो वे भवति दनुपतो पश्चिमे वायवीन्द्रौ // 62 // बाह्ये नागाः समस्ताः सुरयमधनदे पश्चिमे वेदिकायां पद्मः कर्कोटको वै चलवलयगतो वासुकिः शङ्खपालः / वह्निस्थो तोयमूनि प्रभवति कुलिकोऽनन्तनागः प्रसिद्धस्तद्वद् भूमण्डलस्थो भवति कुलवशात् तक्षको वै महाब्जः // 63 / / तेषां प्रज्ञाः प्रचण्डाश्चितिभुवनगताः श्वानवक्त्रादयश्च तासां पद्माद्युपायास्त्वपरकुलवशात् सत्सुखार्थं भवन्ति / श्वानास्या पूर्वचक्रे चलवलयगता शूलभेदे श्मशाने याम्ये वे शूकरास्या खलु शवदहने चोत्तरे व्याघ्रवक्त्रा // 64 // सक्लिन्ने प्रतिगन्धे भवति च वरुणे जम्बुकास्या तथैव उच्छिष्ट घोरयुद्धे शिखिनि दनुपती काकवक्त्रा सगृध्रा / 1. चतुर्थपङ्क्तिस्थाने मुद्रितपुस्तके-'ऐन्द्री दैत्योऽपरे स्यात् खलु युगवदना मारुते विष्णुरेव' इति पाठः / 2. मुद्रितपुस्तक एक षष्टितम-द्वाषष्टितमश्लोकयोः क्रमविपर्ययः /