________________ पटले, 54-59 श्लो.] प्राणदेवतोत्पादमहोद्देशः 183 उत्तरे जिह्वारसः, वरुणे स्पर्शकायेन्द्रियम्, पाताले शब्दकर्णी, दक्षिणद्वारपूर्वे वामे चित्तं वै धर्मधातुर्भवति सगगनं पूर्वद्वारस्य वामे / एवमादौ चोपायषटकं भवति / तथागतकुलवशाद मण्डलस्याधिदैवम् // 57 // पश्चात् प्रज्ञादिषट्कं प्रकटमधिपतिः स्वस्वपद्मासने च पूर्वद्वारे प्रचण्डस्त्वसिधृगतिबल: स्तम्भकी तस्य मुद्रा। सव्ये जम्भश्च मानी भवति च धनदे मानको जम्भकी च स्तम्भश्चानन्तवीर्या भवति च वरुणे द्वारमध्यस्थपद्मे // 58 // पश्चात् प्रज्ञादिषट्कं धर्मधात्वादिकमिति / अत्राग्नेय्यां स्पर्शवज्रा कायेन्द्रियम्, नैर्ऋत्ये रसवज्रा जिह्वा, ईशाने रूपवज्रा चक्षुः, वायव्ये गन्धवज्रा घ्राणः, पाताले[271a] शब्दवज्रा श्रोत्रम् / उत्तरद्वार वामे धर्मधातुः, मनः पश्चिमद्वारवामे / इति द्वादशायतनानि / बोधिसत्त्वपुटे समरसीकरणं ज्ञानसत्त्वस्य 'स्वस्वपद्मासने चन्द्रमूनि / इदानीं क्रोधराजानां समरसत्वमुच्यते-पूर्वद्वारे प्रचण्डस्त्वसिधूगतिबलः स्तम्भको तस्य मुद्रा, सव्यद्वारे जम्भकश्च मानी मुद्रा, उत्तरद्वारे मानको "जम्भको मुद्रा। पश्चिमद्वारे 'स्तम्भोऽनन्तवीर्या तस्य मुद्रा भवति समरसा / द्वारमध्यस्थपन इति चित्तमण्डले सम रसकरणम् / नाभिचक्रे हृत्कमले जातकस्येति नियमः / / 58 // 15 - मारीची नीलदण्डोऽचल इति भृकुटी शृङ्खलाऽनन्तवीर्य ष्टक्किश्चुन्दारथस्था सुरधनदपरे दक्षिणे द्वारमध्ये / सुम्भो रोद्रेक्षणाधो भवति नभसि चोष्णीष एवातिनीला पूर्वद्वारा परोर्वे भवति च नियतं स्यन्दनश्च द्वयोश्च // 59 / / 20 एवं क्रोधप्रासङ्गिकेन मारीची नोलदण्डो बाह्यकायमण्डले द्वारपाल: पूर्वे सम- रसः, दक्षिणे टक्किश्चुन्दारथस्था, उत्तरेऽचलो भकुटो, पश्चिमे शृङ्खलाऽनन्तवीर्यो महाबल इति समरसः। सुम्भराजो रौद्राक्षी पाताले। अतिनीला उष्णीष ऊर्ध्वं रजोमण्डले पूर्वद्वारोपरि उष्णीषः। पश्चिमे सुम्भ इति स्यन्दनश्च द्वयोश्चेति नियमः / भावनायां पुनरध ऊर्वेऽपि स्यन्दन इति गर्भमण्डले मुखेन्द्रियगुदोष्णीषद्वाराणि / इन्द्रियमिति मूत्रशुक्रद्वारम् / 'बाह्ये कायमण्डले घ्राणचक्षुजिह्वाकायश्रोत्राणीति। बालकाये यथा तथा मण्डले 'इति नियमः // 59 / / 25 1. च. स्पर्श:। २.ग. च. तत्रा। 3. ग. च. भो. वामे आकाशे। 4. ग. 'स्व' नास्ति / 5. क. स. च. छ. जम्भी। 6. क. ख. ग. छ. स्तम्भको / 7. ग. रसी। ८.क. बाह्य / 9. क. ख. ग. छ. 'इति' नास्ति।