________________ 182 विमलप्रभायां साधना.. समयसत्त्वेन ज्ञानसत्त्वस्य समरसत्वम् / एवं पूर्वपत्रे कृष्णवीप्ता समरसा / वरकमलदले दक्षिणे रक्तदीप्ता, उत्तरे श्वेतदीप्ता, पश्चिमे पोतदीप्ता भवति कुलवशाद् ज्ञान'चक्रवशात् / एवमाग्नेय्यां धूमा / नैऋत्ये मरीचिः / खधकोत ईशे॥ 54 // वायव्यां श्रीप्रदीपा मणिरपि च तरुधर्मगण्डी च शङ्गो वह्नौ वायौ च दैत्ये हरदिशि च तथाभ्यन्तरे कोणभागे। पूर्वे संस्कारपृथ्वी खलु कमलगतौ दक्षिणे वेदनाम्भो वामे संज्ञा च वह्निर्भवति स पवनं रूपमेवापरे च // 55 // "वायव्यां प्रदीपा समरसा इति / एवमग्निकोणे चिन्तामणिः, नैऋत्ये धर्मगण्डी, ईशाने धर्मशङ्खः, वायव्ये कल्पवृक्ष इति / वज्रावलीपद्मदलयोः कोणभा[ 270b गेऽभ्यन्तरे। एवं पूर्वकमलासने कणिकायां सूर्ये संस्कारपृथिव्यो द्वौ समरसो समयसत्त्वाभ्यां सह / दक्षिणे वेदना तोयधातुः, उत्तरे संज्ञा तेजोधातुः, पश्चिमे सपवनं रूपं समरसं भवतीति / अत्रोपाया नायकाः // 55 // आग्नेय्यां वायुरूपे भवति दनुपती वह्निसंज्ञा द्वयं च ईशेऽम्भो वेदना वे मरुति च धरणी स्कन्धसंस्कारयुक्ता / देवी बुद्धान्तरालेष्वमृतरसघटाश्चाष्टकक्षप्रदेशे घ्राणो गन्धश्च पूर्वे पुनरपरपुटे दक्षिणे नेत्ररूपे // 56 // 20 एवमाग्नेय्यां वायुरूपे समरसे भवतः, नैऋत्ये तेजोधातुसंज्ञे, ईशाने तोयधातुवेदने, वायव्ये पृथिवीधातुसंस्कारौ समरसाविति कोणदेव्यो नायिक्यः। एवं देवीबुद्धानामन्तरालेष्वमृतरसघटा अष्टकक्षप्रदेशे समरसा भवन्तीति नियमः / तथागतपुटे ततो बोधिसत्त्वपुटे घ्राणो गन्धश्च पूर्वकमले समरसः / दक्षिणे नेत्रं रूपविषयः // 56 // वामे जिह्वारसः स्याद् भवति हि वरुणे स्पर्शकायस्तथैव पाताले शब्दकौँ भवति कुलवशाद् दक्षिणे द्वारवामे / चित्तं वै धर्मधातुर्भवति सगगनं सर्वतो द्वारवामे आदौ चोपायषट्कं भवति जिनवशान्मण्डलस्याधिदेवम् // 57 / / 1. ग. 'चक्र' नास्ति, भो. Sal ( वक्त्र)। २.ग वायव्ये / 3. भो. 'इति' नास्ति /