________________ 10 पटले, 51-54 श्लो.] प्राणदेवतोत्पादमहोद्देशः आलयविज्ञान' प्रवृत्तिविज्ञानमिति / अष्टाङ्घ्रिस्यन्दनस्थमिति / शब्दस्पर्शरसरूपगन्धसत्त्वरजस्तमोगुणस्थं जिनरिपुमथनं मारक्लेशमथनम् / ज्ञानचक्रस्य हेतोः पञ्चविषयज्ञाननिवृत्तय इति // 52 // नाभौ हत्वाकुशेन स्फुरदमलकरं ज्ञानचक्रेश्वरं वै हस्तेष्वेवं प्रबद्ध्वा सकुलिशफणिना भीषयित्वा स्वशस्त्रैः / साध्यं कृत्वा समस्तं व्रजति पुनरसौ चालयित्वा सुचक्रं वेशं बन्धं च तोषं समरसकरणं जम्भकादिः करोति // 53 // ततो नाभिकमलाद् बाह्यनिर्गतः प्राणो बाह्यभावानाकृष्य पुनर्निवर्तते। अतो विशुद्धया हत्वा नाभौ वज्राङ्कशेन स्फुरदमलकरं ज्ञानचक्रेश्वरं वै हस्तेषु चतुर्विंशतिषु बन्धयित्वा सकुलिशनागपाशैभॊषयित्वा स्वशस्त्रैः। एवं ज्ञानचक्रं साध्यं कृत्वा प्रजति पुनः स्वस्थानं चालयित्वा समस्तं भावलक्षणं विश्वचक्रमिति / ततो वेशं जम्भकः करोति चक्षुरिन्द्रियजनितमालयविज्ञानम् / बन्धं कायेन्द्रियजनितं कायविज्ञानं स्तम्भकः करोति / 'तोषं जिह्वेन्द्रियजनितं जिह्वाविज्ञानं मानकः करोति। समरसकरणं [270a] घ्राणेन्द्रियजनितं घ्राणविज्ञानमतिबलः करोति। एवं पञ्चप्रकारं जःकारेणाकृष्टम्, हूँकारेण प्रविष्टम्, वंकारेण बद्धम्, होःकारेण तोषितम्, ही कारेण जेण वजपाशेन वज्रघण्टया वज्रदण्डेनेति / एवं ज्ञानचक्रं सम्पूज्य पूर्ववत् समयचक्रं समरसीभूतं भावयेदिति नियमः / / 53 / / इदानीमुत्पत्तिक्रमेण प्रत्येकस्थाने ज्ञानदेवतानां समयदेवताभिः सार्धमेकत्वमुच्यते चित्तं निष्पत्तियोगे भवति सगगनं गर्भपद्मेऽग्निमूनि पूर्वे श्रीकृष्णदीप्ता वरकमलदले दक्षिणे रक्तदीप्ता / वामे श्रीश्वेतदीप्ता भवति कुलवशात् पश्चिमे पीतदीप्ता धूमाग्नेय्यां मरीचिदंनुजदिशि तथा द्योतकेशप्रदेशे // 54 // "चित्तमित्यादिना। इह निष्पत्तियोगे उत्पत्तिक्रमे भवति सगगनं वज्रधात्वीश्वर्या साधु विज्ञानं 'गर्भपो महासुखे अग्निमूनि चन्द्रसूर्यराहुकालाग्निमण्डलोपरि 15 25 . 1. भो. rNam Par Ses Pa Las ( विज्ञानात् ) / 2. ख. ग. च. छ. बाह्ये / 3. ग. ततो / 4. भो. gSug Pa ( प्रवेशं ) / 5. ग. च. तोयं / 6. भो. sKyed Pa (उत्पत्ति)। 7. भो. sKyed Pa (उत्पत्ति)। ८.क. गर्भ।