________________ 175 पटले, 44-48 श्लो.] उत्पत्तिक्रमेण कायनिष्पत्तिमहोद्देशः इत्युच्यते / ताः कायमण्डल 'वेदिकायां स्वकुलवशात् स्वस्वदिक्ष्विति सर्वत्र नियमः / एवं ब्रह्ममण्डले बाह्य पट्यामपरमपि यत्किञ्चित् सत्त्वकृत्यमिच्छातः प्रतिदिनसमये तत् सर्वं योगिनीकृत्यमत्र, धातुवशादिति नियमः // 46 // इदानीं नित्यानित्यमुच्यतेइत्येवं वज्रिणश्च त्रिभुवनसकलं मण्डलाकारमुक्तं बाह्ये देहे परे च स्फरणनिधनते संस्थिते वस्तुजातेः / तस्मिन्नित्यः खवज्रस्त्रिविधभवगतोऽनित्यतां न प्रयाति नो नित्यं भूतवृन्दं भवति नरपते शकजालं यथैव // 47 // [267a] इत्येवमित्यादिना / इत्येवं सप्तादिभिर्मासैतिकस्य बाह्ये वज्रिणश्च त्रिभुवन- 10 . सकलं स्कन्धधात्वायतनादिकं मण्डलाकारमुक्तं बालजनानां चित्तस्थिरीकरणार्थम् / अत्र बाह्ये लोकधातौ देहेऽध्यात्मनि परे कल्पितमण्डले स्फरणं च निधनता च स्फरणनिधनते संस्थिते वस्तुजातेः / अत्र वस्तु परमाणुद्रव्यं पृथिव्यप्तेजोवायुरिति चत्वारो भूताः। आकाशधातुश्चन्द्रोऽनुस्वारः शुक्रं वा तथा रजो वा बिन्दुद्वयं सूर्यो वाकाशधातुः / राहुर्विज्ञानधातुः / एवं षड्धात्वात्मको महापुरुषपुङ्ग(द्ग)लो 15 वस्तुजातिः। तस्य वस्तुजातेरुत्पादः स्फरणम, विनाशो निधनता, ते' द्वे संस्थिते भूतजानामिति / एवं पृथिवीजातिस्तर्वादयः स्थावराः, उदकजातिः स्वेदजाः, तेजोजातिर्जरायुजाः, वायुजातिरण्डजाः, चन्द्रजाति गासुराः, सूर्यजातिभूतदेवताः / राहुजातिररूपाः, कालाग्निजाति रकाः। एवमष्ट धा जाति वस्तुरूपिणी वस्तुजातिः। तस्मिन्नित्यः खवज्र इति। इह ख° इति आकाशधातु नवमः / परमाणुद्रव्यरहितोऽ- 20 च्छेद्यः। अच्छेद्याभेद्यत्वात् खवज्र आकाशधातुनित्यो द्रव्याभावात् / स आकाशधातुः। सर्वगतत्वात् / त्रिविध भवगतोऽनित्यतां न प्रयाति। नो नित्यं भूतवृन्दं पूर्वोक्तं भवति नरपते शकजालं यथैव, दृष्टनष्टमिति न्यायात् // 47 / / नित्यानित्यं च दृष्ट्वा तदपि जडधियां चित्तशुद्धयर्थहेतोवक्तव्यं साधनं वै न हि हृदयगतः साध्यते कश्चिदत्र / यत्साध्यं साधकः स भ्रममिति सकलं साधनं वज्रिणो यत् तस्माद् राजन् स्वचित्तं व्यपगतकलुषं मण्डलेशं प्रकुर्यात् / / 48 // 1. च. मण्डले। 2. क. वेद्या / 3. ख. ग. च. 'ना' नास्ति / 4. च. कल्पिते / 5. क. ख. छ. 'ते' नास्ति / 6. च. देवाः / 7. ग. च. भो. मष्टविधा। 8. क. 'वस्तु""जातिः' नास्ति / 9. च. 'इह ख इति' नास्ति / 10. ग. खवज्र / 11. भो. 'धातु' नास्ति / 12. क. ख. छ. भगवतो / 25