________________ विमलप्रभायां [साधना 10 एवं नित्यं महाशून्यं दृष्ट्वा विचार्य वाऽनित्यं परमाणुसमागमं च वियोगं च 'तेषां दृष्ट्वोभयोः साधनं न स्याद् बुद्धत्वाय / तदपि जडधियां बालानामवतारणाय चितशुद्धयर्थहेतोर्वक्तव्यं साधनं त्वया हे नरपते सुचन्द्र ! परमार्थतः पुनर्न हि हृदयगतः साध्यते कश्चिदत्र नित्यानित्यपदार्थः। अतो बुद्धत्वाय यत् साध्यं साधकः स एवे[267b]ति नियमः / इह यत्कल्पना साधनं तद् भ्रममिति / सकलं साधनं वज्रिणो यत् तस्माद् राजन् ! स्वचित्तं व्यपगतकलुषं कल्पना रहितं मण्डलेशं कुर्याविति नियमः॥४८॥ इदानीमाधाराधेय उच्यतेश्रीवजी चित्तवज्रं भवति नरपते मण्डलं कायवज्रं वाग्वजं देवतानामलिकलिकुलजं चन्द्रमिन्द्वकमूनि / .. कन्दं नालं त्वकारो दलमपि च तथा केशराण्यप्युकारो मध्ये श्रीकणिका च द्विविधपथगतौ चन्द्रसूर्यो मकारः // 49 // श्रीत्यादिना'। कायवाक्चित्तमण्डले श्रीवत्री नायकश्चित्तवनं भवति / नरपते ! मण्डलं कायवज्रं कायवाक्चित्तलक्षणम् / वागवज्र देवताना मलिकलिकुलजं चक्रमिन्द्वकमूनि / एवं वाक्कायमण्डलेऽपि वाग्वजं देवतागणम् / एवं त्रिविधं चित्तं कायाकारेण 'मण्डलाकारेण, कायस्त्रिविधो वागपि 'त्रिविधा प्रत्याहारेणेति सर्वत्र नियमः। अत्र कमलानां कन्दं नालं च अकारेणोद्भूतम्, दलानि केशराणि च उकारेण संभूतानि। 'मध्ये कणिका चन्द्रासनं मकारेण सूर्यासनं वा रकारेण / एवं ॐकारः प्रणवः। हृदयमुच्यते कमलमिति / प्रथमदेवताकायसंस्थाननिष्पत्तिर्गर्भजानामिह जन्मनीति नियमः। एवं पञ्चज्ञानात्मकं कालचक्रं भगवन्तं वज्रसत्त्वमुकुटिनं ध्यात्वा सुविशुद्धधर्मधात्वात्मकम्, ततः षड्गतिस्थान् सर्वसत्त्वानाकृष्य . तस्मिन्नेव मण्डले प्रविष्टान् विभाव्य ततो वैरोचनादींस्तथागतान् स्वहृदये प्रवेश्य सधातून बोधिचित्तद्रवापन्नान् स्वगुह्यकुलिशेनोत्सृज्य तेन बोधिचित्तेन तान् सर्वसत्त्वानभिषिक्तान् ध्यायात् / ततस्तान् बोधिचित्तरश्मिभिः स्पृष्टान् सर्वसत्त्वान् त्रिमुखान् "नानामुखान् नाना"वर्णान् देवतास्वरूपान् प्रज्ञोपायात्मकान् परमानन्द सुखपूर्णान् भावयेत् / ततस्तेषां १४स्वकायान् मण्डलचक्रस्वभावीभूतान् झटिति पश्येत् / तत्र मन्त्रबीजानि नानाव्यञ्जनसंयुक्तानि स्वरसहितानि / अत्र सर्वव्यञ्जनसमूहः१५ क्षकारः। तेन ज्ञाप[268a ]केन यस्य यत् प्रथमं नाम तस्य व्यञ्जनं तेन तत्सर्वं कर्तव्यम् / अत्र क्ष क्षि 15 20 १.ग. भो. 'तेषां' नास्ति / 2. क. 'रहितं नास्ति / 3. च. 'ना' नास्ति / 4. च 'इह' इत्यधिकम् / 5. भो. आलिकालि। 6 ग. 'मण्डलाकारेण' नास्ति / 7. ग. त्रिधा / 8. क. ख. ग. छ. मध्य / 9. ग. गकारेण / 10. ग. 'बोधि" पन्नान्' नास्ति / 11. ग. 'नानामुखान्' नास्ति / 12. ग. वस्त्रान् / 13. क. ख. च. छ. सुखापूर्णान् / 14. ख. स्वकी। 15. क. ख. छ. समूह /