________________ 173 पटले, 39-44 श्लो.] उत्पत्तिक्रमेण कायनिष्पत्तिमहोद्देशः दिक्षु / बञाझ्या अष्टपावः पातालरथगतः। व्योम्नि नीलारथस्य / सकूरः पञ्चवर्णोऽनिल इति खगः स्फीतगात्रस्त्रिनेत्र इति // 41 // मारीच्याः शूकराः स्युर्हयगजहरयः सप्तसंख्या रथेषु चुन्दायाः शृङ्खलायाः सुरयमवरुणे चोत्तरे वे भृकुटयाः / गन्धा माला च पूर्वे यमवरुणगते धूपदीपे च लास्या हास्या वाद्या च नृत्या धनदभुवितले चाम्बरे गीतकामा // 42 // एवं मारीच्या रथे सप्तशूकराः पूर्वद्वारे। दक्षिणे सप्ताश्वाश्चुन्दारथे। पश्चिमे शृङ्खलारथे सप्त गजाः / उत्तरे भृकुटोरथे सप्त सिंहाः / एवं ततो हृदयदशनाडीस्वभावेन पूजादेवी 'रुत्सर्जयेत् / चित्तमण्डले चतुरस्य सव्यवामवेदिकायां गन्धा माला। *पूर्वदक्षिणे धूपा दोपा / पश्चिमे लास्या हास्या। उत्तरे वाद्या नृत्या। आकाशे गीता 10 कामा। अधो विण्मत्र नाडीस्वभावेन नैवेद्या / अमृतफला इति // 42 // गर्भेऽष्टी वेदिकायां गगनतलगते तोरणाधो नियोज्यो धारिण्यः पट्टिकायां फणिकुलसहिता वेदिकायां प्रतीच्छाः / विद्वेषः स्तोभनेच्छा भवति नृप तथा पौष्टिकं स्तम्भनेच्छा तारादेव्यादिशुद्धया त्रिभुवनजननो मारणोत्पादनेच्छा // 43 // 13 रजोमण्डले गगन'तलगता देव्यो याः काश्चित्ताः पूर्वापरतोरणाधो दर्शनीयाः / भावनायां पुनर्दिक्पालादयो यथोक्तस्थान एव। समन्तभद्रादयश्च[266a]त्वारो द्वारस्यावसव्य इति नियमः। एवं यथा पूजादेव्यस्तथानन्ता धारिण्यः पट्टिकायां वेदिकायामिति / एवं बाह्ये कायमण्डले फणिकुलसहिता वेदिकायां प्रतीच्छाः। अतो वाङ्मण्डले वेदिकायामिच्छाः। तत्र पूर्वे विद्वेषेच्छा ताराजन्या, स्तोभनेच्छा दक्षिणे 20 पाण्डराजन्या, उत्तरे पौष्टिकेच्छा मामकीजन्या, पश्चिमे स्तम्भनेच्छा लोचनाजन्या इति तारादेव्यादिशुद्धचा त्रिभुवनजननी मारणेच्छा वजधात्वीश्वरीजन्या। उत्पादनेच्छा विश्वमातृजन्या इति // 43 // वाद्येच्छा भूषणेच्छा भवति नरपते भोजनेच्छा तृतीया गन्धेच्छा चांशुकेच्छा प्रकटितनियता मैथुनेच्छा च षष्ठी। 25 काये कण्डूयनेच्छा वदनगतकफोत्सर्जनेऽङ्गे मलेच्छा नृत्येच्छा चासनेच्छा पयसि च शयने प्लावने मज्जनेच्छा // 44 // 1. ग. च. रुत्सृजेत् / 2. क. ख. ग. छ. द्वार / 3.. वामदक्षिण / 4. ग. च. भो. पूर्वे / 5. ग. 'नाडी' नास्ति / 6. क. ख. छ. तले।