________________ 172 विमलप्रभायां [साधना- . ततो हस्ताङ्गलिकाविशुद्धया श्वानास्या पूर्वे। शूकरास्या दक्षिणे। जम्बुकास्या पश्चिमे। उत्तरे व्याघ्रास्था। वाय्वग्निवलयमध्ये महाश्मशाने द्विभुजा / कतिकाशुक्तिहस्ता एकवक्त्रा। [ 265a ] एवं काकास्याऽग्नौ, गृध्रास्या नैऋत्ये, गरुडास्या वायव्ये, उलूकास्या ईशाने, वज्राक्षी पाताले, नीलाऽऽकाशे / सर्वा एता कतिकपालहस्ता नग्नाः पञ्चमुद्राविभूषिता मुण्डमालावलम्बिता इति / एवं लोमकेशविशुद्धया सार्द्धत्रिकोटिभूतयोनिश्चलान्ते वायुवलयान्ते चर्मान्ते लोमानीति। उत्सर्जयेन्मन्त्री बाह्ये। एवं नवमासावधेः कायदेवतागणनिष्पत्तिः // 39 // इदानीं चामुण्डादोनां कमलासनान्युच्यन्तेरक्तप्रेतं खगेन्द्रो महिषशिखिगजा हंसगोपञ्चवक्त्राश्चामुण्डादेः क्रमेण प्रभवति कमलान्यासनं दिग्विदिक्षु / .. दैत्यादीनां च तद्वद् धनपतिशिखिनोरब्धिवाय्वोर्गणस्य मातङ्गेशश्च मेषो मकर इति मृगो मूषकश्च क्रमेण // 40 // रक्तप्रेतमित्यादिना। इह पूर्वे चामुण्डाया रक्तमहाप्रेतासनं कमल'कणिकायाम्। अष्टदलेषु चामुण्डादिदेव्यः / एवं वैष्णव्या गरुडः, वाराह्या महिषः, कौमार्या मयूरः, ऐन्द्रया गजः', ब्रह्माण्या हंसः, रौद्रया वषभः, महालक्षम्या सिंह इति क्रमेणासनं कमलस्य दिग्विदिक्षु / दैत्यादीनां च तद्वदिति वचनाद् नैऋत्यकमला सनं रक्तप्रेतम् / विष्णोर्गरुडम्, यमस्य महिषः, कुमारस्य मयूरः, इन्द्रस्य गजः, ब्रह्मणो हंसः, रुद्रस्य वृषभ इति नैऋत्यादीनां नियमः / तथा धनपतिशिखिनों 'रब्धिवाय्वोर्गणस्येति पञ्चानां यथासंख्यम् / धनपतेर्मातङ्गः, अग्नेर्मेषः अब्धर्मकरः, वायोगः, गणपतेर्मूषक इति // 40 // भेरुण्डः क्रुञ्चनीलेक्षणगुदवदनाः.. काकवक्त्रादिकोणे खड्गी ऋक्षश्च सिंहः प्रभवति चमरी श्वानवक्त्रादिदिक्षु / वज्राक्ष्या अष्टपादस्त्ववनितलगती व्योम्नि नीलारथस्य सङ्करः पञ्चवर्णस्त्वनिल इति खगः स्फोतगात्रस्त्रिनेत्रः // 41 // ... [265b] तथा काकास्यायाश्चक्रतले भेरुण्डः, गृध्रास्यायाः क्रुश्चः, गरुडास्याया नोलाक्षः, उलूकास्याया वाग्वलिरिति कोणे। तथा दिक्षु श्वानास्यायाश्चक्रतले खड्गी, शूकरास्याया ऋक्षः, जम्बुकास्यायाः सिंहः, व्याघ्रास्यायाश्चमरीति श्वानवक्त्रादि 1. च. भो. कमलस्य / 2. क. 'गजः "रौद्रया' नास्ति / 3. क. ख. ग. छ. 'च' नास्ति / 4. च. लस्या। 5. क. स्व. च. छ. नोब्धेर्वायो।