________________ 171 पटले, 35-39 श्लो.] उत्पत्तिक्रमेण कायनिष्पत्तिमहोद्देशः श्रीचक्रा दण्डहस्ता प्रकृतिगुणवशान्मुद्गरा कुन्तहस्ता श्रीकर्ती वज्रहस्ता खलु परशुकरा शूलहस्ता तु सव्ये / वामे खेटाहिहस्ता प्रकृतिगुणवशात् पाशकोदण्डहस्ता श्रीशङ्खा रत्नहस्ता कमलशशधरादर्शहस्ता च तद्वत् // 37 // वैरोचनकुलवशाद् मारीच्याः 'सव्ये हस्ते चक्रम्, द्वितीये दण्डः / प्रकृतिगुणवशात् / पद्मकुलवशात् चुन्दायाः प्रथमकरे मुद्गरः, द्वितीये कुन्तम् / अतिनीलाया ज्ञानकुलवशात् प्रथमे की, द्वितीये वज्रम्। रौद्राक्ष्या आकाशकुलवशात् प्रथमे पशुः, द्वितीये त्रिशूलमिति। तथा वामहस्ते शृङ्खलायाः खेटम् अहिश्चेति / भृकुटयाः प्रथमे कोदण्डः, द्वितीये पाशः। मारोच्याः शङ्खो रत्नम्। चुन्दायाः पद्म आदर्शः // 37 // [264b] श्रीघण्टा शुक्तिहस्ता खलु भुजगकराप्येव खट्वाङ्गहस्ता मारीच्यायेकवक्त्रा युगकरकमला वेदितव्याः क्रमेण / स्तम्भाधोऽप्यष्टनागा घटकुलिशकराः पद्ममाणिक्यहस्ता वाय्वादो मण्डले वै युगकरकमलाः पद्मकर्कोटकाद्याः // 38 // अतिनीलायाः कपालं घण्टा, रौद्राक्ष्या नागपाशः खट्वाङ्गमिति / एवं नील- 15T 344 दण्डस्य टक्किराजस्य महाबलस्य अचलस्य पूर्वे दक्षिण पश्चिमे उत्तरे "द्वारे स्थितस्येति नियमः। ततो नवमे मासे उपादाने क्रियाचक्रे विंशत्यङ्गुलिकानाडीविशुद्धया दश नागदशप्रचण्डा उत्सर्जयेत् / बाह्ये कायमण्डले चतुस्तोरणेऽष्टस्तम्भतले अष्टौ नागाः, जयविजयावध ऊर्खे। सर्वे चतुर्भुजाः। सव्येऽमृतघटः प्रथम, द्वितीये * 'वज्रम् / वामे प्रथमे पद्मम्, द्वितीये रत्नम् / अतो घटकुलिशकराः पद्ममाणिक्यहस्ता वाय्वादो मण्डले वै 'इति। पद्मकर्कोटको पूर्वे वायुमण्डलद्वये। दक्षिणे वह्निमण्डले वासुकिः शङ्खपालः। पश्चिमे पृथ्वीमण्डले तक्षको महापद्मः। उत्तरे तोयमण्डलेऽनन्तः कुलिक इति / आकाशे जयो ज्ञाने विजय इति दशपादाङ्गलिकाः // 38 // श्वानास्या शूकरास्या खलु चलवलये जम्बुकास्या च दिक्षु व्याघ्रास्या चोत्तरस्था चितिभुवनगता कर्तिकाशुक्तिहस्ता। काकास्या गृध्रवक्त्रा खगपतिवदनोलूकवक्त्रा च कोणे वज्राक्षी चातिनीलाघसि नभसि गते भूतयोनिश्चलान्ते // 39 // . 3. ग. बुद्धायाः। 1. भो. Dan Po Na (प्रथम)। 2. क. ख. छ. शङ्ख। 4. क. ख. छ. द्वार / 5. क. ख. छ. नागा। ६.ग. नास्ति /