________________ 170 विमलप्रभायां [साधना 15 रत्नादर्शश्च तद्वत् सनकुलजलजं वज्रघण्टा च चापं / पद्मं वे कुण्डिकाहिधनुरपि च तथा नागपाशश्च रत्नम् / / 35 // ततो वामे नैऋत्यस्य प्रथमे करे खेटम, द्वितीये कपालम् / वायोः प्रथमे इन्द्रनीलम्, द्वितीये नीलोत्पलम् / यमस्य प्रथमे शृङ्खला, द्वितीये पाशः। अग्नेः प्रथमे पद्मम्, द्वितीये कमण्डलुः। कार्तिकेयस्य प्रथमे रत्नम्, द्वितीये दर्पणम् / यक्षस्य प्रथमे नकुलम्, द्वितीये पद्मम् / इन्द्रस्य प्रथमे घण्टा, द्वितीये धनुः / ब्रह्मणः प्रथमे पनम, द्वितीये कुण्डिका / रुद्रस्य प्रथमे खट्वाङ्गं सर्पसहितम्, द्वितीये धनुः / समुद्रस्य प्रथमे नागपाशः, द्वितीये चन्द्रकान्तमणिरत्नम् // 35 // पाशो रत्नं च पद्मं भवति दनुरिपोः पाञ्चजन्यं च शङ्खः / चैत्राद्याः पद्मपत्रे वसुकरतिथयः कणिकायां द्विपूर्णाः। सर्वाः शून्यर्तुलोकाः परमशशिकला वेदितव्याब्दयोगाद् द्वारे देव्यो रथस्थास्त्वसिकुलिशधराः साङ्कुशा बाणहस्ताः // 36 // विनायकस्य प्रथमे पाशः, द्वितीये रत्नम्। वासुदेवस्य प्रथमे पद्मम्, द्वितीये पाञ्चजन्यः शङ्ख इति। वामहस्तद्वये सर्वेषां यथानुक्रमेण चिह्नानि / कमलकर्णिकास्थानां तेषां नैऋत्यादीनां कमलदलेष्वष्टाविंशहलेष दक्षिणावर्तेष त्रिपरिमण्डलदलेषु प्रथमपरिमण्डले चत्वारि दलानि, द्वितीयेऽष्टौ, तृतीये षोडश। एवमष्टाविंशतिदलेषु चैत्रादिमासतिथयः / शुक्लकृष्णपक्षाणां पूर्णिमाऽमावासी कणिकायां नायकत्वेन स्थिताः। एवं चैत्रतिथयो नैऋत्यस्य कमलदले, वैशाखतिथयो वायोः, ज्येष्ठतिथयः पावकस्य, आषाढतिथयः षण्मुखस्य, श्रावणतिथयः समुद्रस्य, भाद्रतिथयो विनायकस्य, आश्वि[2644]नतिथय इन्द्रस्य, कार्तिकतिथयो ब्रह्मणः, मार्गतिथयो "हरस्य, पौषतिथयो यक्षस्य, माघतिथयो विष्णोः, फाल्गुनतिथयो यमस्य / तद्वद्वर्णायुधसंस्थानेन देव्यः। एवं चैत्राद्याः पद्मपत्रे वसुकरतिथयः कणिकायां द्विपूर्णाः सर्वा शून्यतुलोकाः षष्टयुत्तरत्रिशताः। परमशशिकला वेदितव्यास्ता अब्दयोगादिति / आसां वक्ष्यमाणबीजेनादिभूतेन वज्रान्तं नाम भवतीति नियमः। इदानी हस्तपादतलोष्णीषगुदनाडीस्फरणशुद्धया द्वारे देव्यो रथस्था मारीच्याद्या एकवक्त्राश्चतुर्भुजाः / आसां परस्थानगमनादनुनायिकात्वं नीलदण्डादीनां नायकत्वं स्वस्थानतः। अत आसां पूर्वादिकुलं वज्रशृङ्खलादीनां गमनमभिमुखस्थाने / तेन कुलवशेन शृङ्खलायाः प्रथमे सव्ये भुजे असिः, द्वितीये वज्रम्, अमोघसिद्धिकुलवशादिति / एवं रत्नकुलवशादिति / भृकुट्याः 'प्रथमे करे 'बाणः, साङ्कशेति द्वितीयेऽङ्कुशः // 36 // 1. क. 'द्वितीये" इन्द्रनीलं' नास्ति / 2. क. ख. छ. जन्य / 3. ग. पृ. 166, पं. तः 'खी च रक्तवर्ण "नैऋत्यस्य' नास्ति / 4. भो. Drag Po (रुद्रस्य ) / 5. क. 'नीलदण्डादीनां नायकत्वं' नास्ति / 6. ग. प्रथम / 7. च. बाणं, भो. बाणः, द्वितीये साङ्कुशेति /