________________ विमलप्रभायां [साधनाज्ञात्वा शक्ति स्वचित्ते त्वयमपि भगवान् योगिभिर्भावनीयः सेकार्थ मण्डलं वा भवति कुलवशाद् बाह्यचक्रप्रहीणम् // 25 // अष्टौ धूमाविदेवीर्वजयित्वा अष्टौ घटान् धर्मशङ्खादिकं च जिनपतिकमले कदाचित् श्रीचक्रं चित्तमण्डलं गर्भमध्ये भवति नरपते पञ्चविंशात्मकं च। उ[2612]पविष्टोऽपि तदा भगवान् भवति श्रीसमाजवत् / अत्र दोषो नास्ति निरन्वय- . त्वात् / एवं ज्ञात्वा शक्ति स्वचित्ते साधकैरयमपि भगवान् योगिभिर्भावनीयः। सेकार्थ मण्डलं वा भवति कुलवशाबाह्यचक्रप्रहोणम् / __ अत्र सहजसुखं वज्रसत्त्वं शुक्र गर्भप्रविष्टं प्रथममासेऽविद्या, द्वितीये संस्कारः, तृतीये विज्ञानम्, चतुर्थे 'रूपम्, [पञ्चमे] रूपसम्बन्धिषडायतनम् / स्पर्शादिकं षष्ठं मासं यावत्, कुलवशादिति भगवतो नियमः। एवं हृदये चित्तमण्डलं च पञ्चपञ्चधात्वात्मकम् / ततः सप्तमे मासे वेदनोत्पादकाले तृतीया मात्रा वाङ्मण्डले कालनाडीदेवीनामुत्सर्गः। तत्र वाङ्मण्डलं कण्ठनिर्माणचक्रपर्यन्तं चतुरस्रं ग्राह्यम् / तत्र निर्माणचक्रे चतुर्विधा नाड्यो गर्भे प्रथमपरिमण्डले चतस्रः, द्वितीयेऽष्टौ, तृतीये द्वादश चित्तवाक्कायस्वभावेन। ततश्चतुर्थपरिमण्डले त्रिवज्रसाधारणाश्चतुःषष्टिनाड्यः। तत्र षष्टिमण्डलवाहिन्यश्चतस्रः शून्याः। एवं कण्ठे मुहूर्तवाहिन्यः त्रिशत्, द्वे शून्ये / एवं निर्माणचक्रे वाङ्नाड्योऽष्टप्रहरभेदवाहिन्यो द्वितीयपरिमण्डलस्थाश्चतुःषष्टिभिः सार्धमुत्सृजेदिति नियमः, आकण्ठात् // 25 // 10 इदानीं वाङ्मण्डलदेवतोत्सर्ग उच्यतेबाह्ये चाष्टाष्टकेनाष्टसु कमलदलेष्वष्टदिग्देवतीभियोगिन्यश्चचिकाद्याः शशिरविरहिता वेदहस्तास्त्रिनेत्राः / पूर्वाब्जे चर्चिकाग्नी खगपतिगमना शूकरी षण्मुखी च याम्ये नैर्ऋत्यकोणे सवरुणपवने वज्रहस्ताब्धिवक्त्रा // 26 // बाह्य इत्यादिना। इह चित्तमण्डलबाह्ये वाङ्मण्डले / तस्मिन् बाह्ये चाष्टाष्टकेनाष्टसु कमलदलेष्वष्टदिग्योगिनीभिः साधं योगिन्यश्चचिकाद्याः शशिरवि रहिताः स्वस्ववाहनस्था वेदहस्ता चतुर्भुजास्त्रिनेत्रा नानावक्त्रा इति / तत्र पूर्वाब्जे चचिका / एकवक्त्रा कृष्णा। अग्नौ खगप[261b]तिगमना वैष्णवी। शूकरी षण्मुखी च रक्तवर्णा याम्ये नैऋत्ये। वारुण्ये ऐन्द्री पीता। वायव्येऽब्धिवक्त्रा ब्रह्माणो पीता // 26 // 1. भो. Min Dan gZugs ( नामरूपम् ) / 2. ग. च. 'च' नास्ति / 3. ग. 'पञ्च' नास्ति / ४.क. ख. छ. सहिताः / 5. च. त्ये च / 6. च. वारुणे, ख. छ. वरुणे /