________________ पटले, 20-25 श्लो.] उत्पत्तिक्रमण कायनिष्पत्तिमहोद्देशः 165 कृष्णानामित्यादिना। 'षट् कुलस्कन्धविशुद्धया षटिचह्नानि / तत्र कृष्णानां संस्कारकुलजानां प्रथमे दक्षिण करे खङ्गः, द्वितीये कतिका, तृतीये त्रिशूलम् / वामे प्रथमे खेटम, द्वितीये कपालम, तृतीये करतले श्वेतखट्वाङ्गम् अमोघसिद्धिताराअतिबलखगर्भस्पर्शववाणामिति / तथा लोहितानां सव्ये प्रथम हस्तेऽग्निबाणः, द्वितीये वज्राङ्कशः, तृतीये सरवडमरुकः। क्रमेणेति, वामे प्रथमे चापम्, द्वितीये वज्रपाशः, तृतीये स्फुरवमलमणी रत्नम्, नवशूकं वेदनाकुलजानां रत्नसंभवपाण्डराजम्भकक्षितिगर्भरसवज्राणामिति // 22 // 5 पीतानां चक्रदण्डं भयकरकुलिशं सव्यहस्ते क्रमेण श्रीशङ्खः शृङ्खला वै भवति च सरवा वज्रघण्टा च वामे / सव्ये श्रीमुद्गरो वै शशधरधवलानां च कुन्तस्त्रिशूलं वामे श्वेतं च पद्मं शतदलसहितं दर्पणं चाक्षसूत्रम् // 23 // एवं रूपकुलजानां सव्ये प्रथमहस्ते चक्रम्, द्वितीये दण्डः, तृतीये भयकरकुलिशम् / वामे प्रथमे शङ्खः, द्वितीये वज्रशृङ्खला, तृतीये सरवा वज्रघण्टा / एवं पीता[260b]नां वैरोचनलोचनास्तम्भकसर्वनीवरणविष्कम्भिगन्धवज्राणामिति / तथा संज्ञाकुलजानां श्वेतानां सव्ये प्रथमहस्ते मुद्गरः, द्वितीये कुन्तः, तृतीये 15 त्रिशूलम् / वामे प्रथमे श्वेतं शतदलपद्मम्, द्वितीये दर्पणम्, तृतीये अक्षसूत्रम् अमिताभमामकीपद्मान्तकलोकेश्वररूपवज्राणामिति / / 23 // वज्रं कर्ती कुठारः प्रभवति हरितानां च सव्ये क्रमेण .वामे घण्टा कपालं सकलगुणनिधिद्ब्रह्मवक्त्रं तदेव / नीलानां वेदितव्यं प्रकृतिगुणवशाद् देवतीनां च तद्वत् कृष्णा रक्ता च शुक्ला द्रुतकनकनिभाः पूर्वभूम्यादिदेव्यः // 24 // तथा विज्ञानकुलजानां हरितानां प्रथमे सव्ये वज्रम्, द्वितीये कर्ती, तृतीये पशुः / वामे प्रथमे घण्टा, द्वितीये कपालम्, तृतीये ब्रह्मशिरः, अक्षोभ्यवज्रधात्वीश्वरी-उष्णीवज्रपाणिधर्मधातुवज्राणामिति / एवं नीलानामपि ज्ञानकुलजानां वनसत्त्वविश्वमातासुम्भराजसमन्तभद्रशब्दवज्राणामिति चिह्न नियमः / अथवा तारायाः 25 समन्तभद्रस्योत्पलं वा खट्वाङ्गस्थाने ब्रह्मशिरःस्थाने चेति // 24 // अष्टौ धूमादिदेवीजिनपतिकमले वर्जयित्वा कदाचित् - श्रीचक्रं गभंमध्ये भवति नरपते पञ्चविंशात्मकं च / 20 1. च. भो. इह षट् / 2. च. दक्षिणे / 3. ग. च. छ. प्रथमे /