________________ पटले, 25-29 श्लो.] उत्पत्तिक्रमेण कायनिष्पत्तिमहोद्देशः 167 रौद्री लक्ष्म्युत्तरेशे प्रहरणसहितालिङ्गितोपायकाया योगिन्योऽष्टाष्टकाद्याः कमलदलगता नायिकावर्णवर्णाः / पूर्वादौ कतिका च प्रथमकरतलाच्छूलचक्र गदा च दण्डः खङ्गश्च शक्तिर्यमकरकमले दक्षिणे चाङकुशो वै // 27 // उत्तरे रौद्री शुक्ला एकवक्त्रा। ईशाने लक्ष्मीः शुक्ला। एवं यथा नायिका कर्णिकास्था तथा वर्णसंस्थानतः। तासां पत्रस्था देव्यः। एवं योगिन्योऽष्टाष्टकाधाः कमलदलगता नायिकावर्णवर्णाः। इदानीं चचिकादीनां यथाक्रमेण सव्यभुजद्वयेन चिह्नान्युच्यन्ते- पूर्वादावित्यादिना / इह पूर्व चर्चिकायाः प्रथमहस्ते कतिका, द्वितीये शूलम् / वैष्णव्या चक्रं गदा। वाराह्या दण्डः खङ्गः। कौमार्याः शक्तिः अङकुशः॥२७॥ वज्र बाणश्च पद्मं तडिदनलनिभो ब्रह्मदण्डस्त्रिशूलं नानारत्नैर्निबद्धः सरवडमरुकः पद्ममेवाक्षसूत्रम् / वामे शुक्तिश्च खट्वाङ्गमपि च कमलं कम्बुकः शृङ्खला च खेटो वे रत्नपाशौ प्रगुणरणरणद्वज्रघण्टा च चापम् // 28 // 13 ऐन्द्रया वज्र बाणः। ब्रह्माण्याः पद्मं ब्रह्मदण्डः। रौद्रयास्त्रिशूलं डमरुकः। महालक्ष्म्याः पद्मम् अक्षसूत्रं चेति सव्यहस्तद्वये। एवं पत्रदेवीनामपि। ततो वामहस्तद्वये पूर्वादि यथाक्रमेण चचिकायाः प्रथमे वामकरे कपालम, द्वितीये खट्वाइम / वैष्णव्याः कमलं शङ्खः। वाराह्याः शृङ्खला खेटः। कौमार्या रत्नं पाशः। ऐन्द्रया घण्टा चापम् // 28 // [262a] 20 कुण्डीपात्रं च खट्वाङ्गमहिरपि च ततस्तोयजं रत्नमेव योगिन्योऽष्टाष्टका याः कमलवसुदले शस्त्रहस्ताश्च तद्वत् / भीमोना कालदंष्ट्रा ज्वलदनलमुखा वायुवेगा प्रचण्डा रौद्राक्षी स्थूलनासा कमलवसुदले चर्चिकायाः स्वदिक्षु // 29 // ब्रह्माण्याः कुण्डिकापात्रम् / रौद्रयाः खट्वाङ्गं सर्पश्च / महालक्ष्म्याः कमलं रत्नमेव च। एवं योगिन्योऽष्टाष्टका याः कमलवसुदले शस्त्रहस्ताश्च तद्वत् / यथा नायिकास्तथेति नियमः। 25