________________ 162 विमलप्रभायां [साधना वामे घण्टा च पद्मं सुरतरुकुसुमं पुष्पमाला क्रमेण रक्ताया दीपहारौ समुकुटकटकं दक्षिणे वामहस्ते // 17 // कृष्णेत्यादि। कृष्णाया धूपपात्रं प्रथमकरतले, शीतपात्रं चन्दनपात्रं द्वितीये, पिष्टं रक्तं कुङ्कमपात्रं तृतीये, समदशशधरं कस्तूरिकासहितं कर्पूरपात्रं चतुर्थे / इति दक्षिणकरेषु / वामे प्रथमहस्ते घण्टा, द्वितीये पद्मम्, तृतीये सुरतरुकुसुमम्, चतुर्थे नानापुष्पमाला क्रमेणेति पूर्वपत्रे। रक्तदीप्तायाः प्रथमहस्ते सव्ये प्रदीपः, द्वितीये हारः, तृतीये 'मुकुटः, चतुर्थे कटकमिति सव्ये // 17 // वस्त्रं वै मेखला च स्फुरदमलकरं कुण्डलं नूपुरं च पीतायाः शङ्खवेणू समणिडमरुकः सव्यहस्ते क्रमेण / .. वामे वीणा च ढक्का प्रगुणरणरणत्कंसिका काहला च . दुग्धाम्ब्वौषध्यपानं त्वमृतरसफलं भक्तपात्रं सितायाः // 18 // [ 258b] तथा वामहस्ते प्रथमे वस्त्रम्, द्वितीये मेखला, तृतीये रत्नकुण्डलम्, चतुर्थे नूपुरमिति / तथा पीतदीप्तायाः सव्ये प्रथमकरे शङ्खः, द्वितीये वेणुः, तृतीये मणिः, डमरुकश्चतुर्थ इति / वामे प्रथमे वीणा, द्वितीये ढक्का', तृतीये रणकंसिका', चतुर्थे काहला च क्रमेणेति। तथा श्वेतदीप्तायाः, प्रथमे हस्ते दुग्धपात्रम्, द्वितीयेऽम्बुपात्रम्, तृतीये दिव्यौषधी, चतुर्थे मद्यपात्रम् / वामे प्रथमहस्ते अमृतपात्रम्, द्वितीये सिद्धरसपात्रम्, तृतीयेऽमृतफलम् , चतुर्थे भक्तपात्रं सितायाः। इति वज्रसत्त्वनिष्पत्तिः स्वमुद्रासहिता // 18 // दिक्पद्मेष्वब्धिबुद्धाः खलु नवनयना वह्निवक्त्रर्तुहस्ताः कोणे तारादिदेव्यः पुनरपि च तयोरष्टकक्षेऽष्टकुम्भाः / कृष्णा रक्ता च पीता शशधरधवला देवता देवती च कृष्णा श्वेतेन्दुमूनि त्वथ विदिशि गते रक्तपीतेऽर्कमूनि // 19 // 25 इदानीं नामरूपाद्युत्पादाय महारागवैनेयसप्तलोकमादिबुद्धदेशनायां भाजनमभिसंवीक्ष्य सुरतध्वनिना स्वकायेऽक्षोभ्यादिजिनसमूहं प्रवेश्याकाशादिधातुसमूह 1. ग. मकुटः / 2. भो. दुन्दुभिः, छ. 'ढक्का "दुग्धपात्रं द्वितीये' नास्ति / 3. ग. केसिका, च. कांचिका / 4. च. सव्ये /