________________ 10 15 पटले, 17-20 श्लो.] उत्पत्तिक्रमेण कायनिष्पत्तिमहोद्देशः पुरुषविद्याचक्षुरादिरूपादिविषयस्वभावेन देवतास्वरूपाविर्भूतं पुनरपि तं स्वकायान्निश्चार्य विश्वमातरि यथावदन्तर्भावयेत्। ततस्तथैव निश्चार्य पुनरपि मण्डलचक्राकारान् तथागतान् सधातून स्वकाये प्रवेश्य चन्द्रद्रवापन्नान स्वकुलिशेनोत्सृज्य स्वविद्याकमलोदरे तत्परावृत्तं देवतादेवतीगणमण्डलमाधाराधेयलक्षणमक्षोभ्याधिपति ध्यात्वा पूर्व भगवतः काये प्रवेशयेत् / ततो दिक्पद्मेष्वब्धिबुद्धाश्चत्वारः खलु नवनयना वह्निवक्त्रास्त्रिमुखा ऋतुहस्ताः षड्भुजाः स्फारणीयाः। तत्र पूर्वपद्मे सूर्यमूनि अमोघसिद्धिः कृष्णः दक्षिणावर्तेन कृष्णरक्तसितवदनः, दक्षिणे रत्नसंभवो रक्तवर्णो दक्षिणावर्तेन रक्तसितकृष्णाननः, उत्तरे अमिताभः शुक्लो दक्षिणाव[259a]र्तेन सितकृष्णरक्ताननः, पश्चिमे वैरोचनः पीतो दक्षिणावर्तेन पीतसितकृष्णानन इति चत्वारः सूर्यमण्डले। "दिनस्तु भगवान् वज्री" (वि. प्र. पृ. 150 ) इति ज्ञापकात् / आग्नेय्यां तारा अमोघसिद्धिवत्, नैऋत्ये पाण्डरा रत्नसंभववत्, ईशाने मामकी अमिताभवत्, वायव्ये लोचना वैरोचनवत्, इति चतस्रश्चन्द्रमण्डले / “नक्तं प्रज्ञा प्रकोतिता"( वि. प्र. पृ. 150 )इति ज्ञापकात् / पुनरपि च तयोर्देवता देव्योर्मध्येऽष्टकक्षास्वष्टामृतकलशाः। एवं कृष्णा रक्ता च पीता शशधरधवला देवता देवती चेति / पूर्वद्वारेऽतिबलः क्रोधो वर्णमुखभुजतोऽमोघसिद्धिवत् कृष्णः, दक्षिणद्वारे जम्भको रत्नसंभववद् वर्णमुखभुजतो रक्तः, पश्चिमद्वारे स्तम्भको वैरोचनवद् वर्णमुखभुजतः पीतः, उत्तरे मानकोऽमिताभवद् वर्णमुखभुजतः शुक्लः, ऊर्चे उष्णीषोऽक्षोभ्यवद् वर्णमुखभुजतः श्यामः। किन्त्वेते क्रोधा आलीढाः, क्रोधदेव्यः प्रत्यालीढा इति / चतुर्थे मासे नामरूपोत्पादकाले रूपं चतुर्महाभूतात्मकं वाय्वग्न्युदकपृथ्वोधात्वात्मकम् / तेन स्कन्धधातुक्रोधानामुत्सर्गः॥ 19 // ततः पञ्चमे मासे षडायतनोत्पादकाले खगर्भादीनुत्सृजेत्वैगर्भाद्याश्च भित्तौ दिशिविदिशिगताः स्पर्शवज्रादयश्च पूर्वे सव्येऽवसव्ये परदिशिकमले विश्वभद्रस्तथैव / श्रीमान् वै वज्रपाणिः खलु रवकुलिशा धर्मधातुः क्रमेण जम्भः स्तम्भश्च मानस्त्वतिबल इति यो द्वारपाल: स पूर्वे // 20 // वेग द्याश्च 'भित्ताविति / इह वायुजन्यो घ्राणो वेगर्भोऽमोघसिद्धिवत् संस्थानतः पूर्वद्वारस्य सव्ये प्राकारभित्तौ दिशोति। विदिशिगताग्नेयकोणे वायुजन्या स्पर्शवज्रा तारावत् संस्थानतः। एवं दक्षिणद्वारसव्ये तेजोजन्यं चक्षुः क्षितिगर्भो रत्नसंभववत् संस्थानतः। एवं तेजोधातुजन्या रसवज्रा पाण्डरावन्नैऋत्यकोणे पश्चिमद्वारसव्ये / पृथिवीजन्यं 'कायेन्द्रियं सर्वनीवरणविष्कम्भी वैरोचनवत् / एवं 'पृ[259b]थ्वीजन्या 25 30 1. छ. तत्त्वकाया / 2. च. भो. देवी / 3. क. ख. ग. छ. मुखवर्ण। 4. ग. च. भो. धातुकस्कन्ध / 5. भो. mKhahi rNii (खगर्भ)। 6. भो. 'भित्तो नास्ति / 7. छ. 'कायेन्द्रियः "एवं पृथ्वी' नास्ति / 8. भो. Sa Khams Las (पृथ्वीधात)।